TBD.
परिभाशा इयं योगनियमार्था। इह शास्त्रे या षष्ठी अनियतयोगा श्रूयते, सा स्थानेयोगाइव भवति, नान्ययोगा। स्थानेयोगस्य निमित्तभूते सति सा प्रतिपत्तव्या। स्थानशब्दश्च प्रसङ्गवाची। यथादर्भाणां स्थाने शरैः प्रस्तरितव्यम् इति दर्भाणां प्रसङ्गे इति गम्यते। एवम् इह अपि अस्तेः स्थाने प्रसङ्गे भूर् भवति। भविता। भवितुम्। भवितव्यम्। ब्रुवः प्रसङ्गे वचिर्भवति। वक्ता। वक्तुम्। वक्तव्यम्। प्रसङ्गे सम्बन्धस्य निमित्तभूते ब्रुव इति षस्ठी। बहवो हि षष्ठ्यर्थाः स्वस्वाम्यनन्तरसमीपसमूहविकारावयवाद्याः। तत्र यावन्तः शब्दे सम्भवन्ति तेषु सर्वेषु प्रप्तेषु नियमः क्रियते षष्ठी स्थानेयोगा इति। स्थाने योगो ऽस्याः इति व्यधिकरणो बहुव्रीहिः। अत एव निपातनाच् च सप्तम्या अलुक्।
TBD.
–
40 षष्ठी स्थानेयोगा। स्थानं प्रसङ्ग इति वक्ष्यति। तस्मिन् वाचकतया योगो यस्याः सा स्थानेयोगा। निपातनात्सप्तम्या अलुक्। स्थानेन योगो यस्या इति वा विग्रहः। निपातनादेत्वम्। `इको यणची'त्यादौ षष्ठी स्थानरूपसम्बन्धार्थिकेत्यर्थः। लोके तावदेकशतं षष्ट\उfffद्र्था आर्था यौना मौखाः रुआऔवाश्च। शब्दस्य शब्देन त्रय एव संबन्धाः–आनन्तर्यं सामीप्यं प्रसङ्गश्चेति। तत्रान्यतमार्थनिर्धारणार्थमिदं सूत्रमिति भाष्यम्। ततश्च`इको यणची'त्यादौ `इक' इति षष्ट\उfffदा स्थानमुच्यते। तस्मिन् प्रकृत्यर्थ इक् निरूपकतयाऽन्वेति। अचि परत इकः प्रसङ्गे यण्? स्यादिति। विवरणवाक्ये त्वस्मिन् `इक' इति षष्ठी निरूपकतायामिति न पुनरुक्तिः शङ्काः। यता– `देवदत्तस्यावयवः पाणि'रिति। `ऊदुपधाया गोहः' इत्यत्र तु `गोह' इति षष्ठी न स्थानार्थिका, उपपधापदसमभिव्याहारेणाऽवयवषष्ठीत्वनिर्धारणात्, परिभाषाणां चाऽनियमे नियमनार्थमेव प्रवृत्तेः। तदेतदाह-अनिर्धारितेत्यादिना। अनिर्धारितः सम्बन्धविशेषो यस्या इति विग्रहः। तदेवमुदाह्मतप्रकृतभाष्यरीत्या`इको यणची'त्यादौ षष्ठी स्थानरूपसंबन्धविशेषार्थिकेति स्थितम्।ष मतुप्सूत्रभाष्ये त्वनन्तरादयो न षष्ठ\उfffद्र्था इति स्थितम्। एवं सति स्थाने इति सप्तम्यन्तपदेन योगो यस्या इति विग्रहे स्थाने इति सप्तम्यन्तस्यानुकरणम्। षष्ठीश्रुतौ `स्थाने' इति सप्तम्यन्तं पदमुपतिष्ठत इति फलति। स्थानेन स्थानपदार्थेन योगो यस्या इति तृतीयान्तविग्रहे त्वध्याह्मतस्थानपदार्थनिरूपितसंबन्धार्थिकेत्यर्थः। `अस्तेर्भूर्भवतीति सन्देहः स्थाने अनन्तरे समीपे इति' इत्यादिप्रकृतसूत्रभाष्यस्य तु अस्तेरनन्तरे इत्यध्याह्मतानन्तरादिपदार्थनिरूपितसम्बन्धे षष्ठीत्येवार्थः। अनन्तरादीनां षष्ठ\उfffद्र्थत्वं तु नास्त्येवेति प्रौढमनोरमायां हलन्त्यमिति सूत्रे स्थितम्। तद्व्याख्याने च शब्दरत्ने शब्देन्दुशेखरे च बहुधा प्रपञ्चितम्। अनिर्धारितेति किम्?। ऊदुपधाया' इत्यत्र `गोह' इति षष्ठ्याः स्थानार्थकत्वं मा भूत्। सति तु तत्रापि स्थानार्थकत्वे, गोहोऽन्त्यस्य उपधामात्रस्य च ऊत् स्यात्। ननु स्थानशब्द आधारवाची लोके प्रसिद्धः। यथा शिवस्थानं कैलासः, विष्णुस्थानं वैकुण्ठमित्यादौ। एवं च इको यणचीत्यादौ षष्ठ्याः स्थानार्थकत्वे प्रकृत्यर्थस्य तत्र निरूपकत्वेऽभेदेन वा अन्वये सति इकोऽधिकरणे यण् स्यादिति इगधिकरणको यण् स्यादिति वाऽर्थः स्यात्। तत इको निवृत्तिर्न स्यादित्यत आह–स्थानं च प्रसङ्ग इति। क्वचिदाभिचारेष्टौ `दर्भाणां स्थाने शरैःप्रस्तरितव्य'मित्यत्र स्थानशब्दस्य प्रसङ्गे दर्शनादिति भावः। एवं च तत्र यथा शरैर्दर्भा निवत्र्यन्ते, तद्वदिको यणचीत्यादावपि यणादिभिरिगादयो निवत्र्यन्ते। तत्र च यः प्रसक्तो निवर्तते स स्थानीति व्यवह्यियते, यो निवर्तयति स आदेश इति।
34 षष्ठी स्थानेयोगा। स्थानेन योगोऽस्या इति विग्रहः। निपातनादेत्वम्। षष्ट\उfffदाः संबन्धमात्रवाचित्वेऽपीह शास्त्रे या षष्ठी सा स्थानेयोगा बोध्या। किमविशेषेण ?, नेत्याह-अनिर्धारितसंबन्धविशेषेति। अनिर्धारितेति किम् ?, `ऊदुपधाया गोहः', `शास इदङ्ह्मलो'रित्यादावुपधासंनिधानेनावयवषष्ठीत्वे निर्णीते `गोहः' `शास' इत्यादौ मा भूत्। सति हि तत्रापि स्थानेयोगत्वे गोहिशासिस्थाने धातुमात्रस्योपधायाश्च स्थाने ऊदितौ स्यातामिति दिक्। स्थानं च प्रसङ्ग इति। न चास्य प्रसङ्गार्थकत्वे विवदितव्यम्, `दर्भाणां स्थाने शरैः प्रस्तरितव्य'मित्युक्ते दर्भाणां प्रसङ्ग इति प्रतीतेः। एवं च `इको यणची'- त्यादाविगुच्चारणप्रसक्तौ यगुच्चारणीय इत्याद्यर्थः संपद्यते।
TBD.