Table of Contents

<<7-1-80 —- 7-1-82>>

7-1-81 शप्श्यनोर् नित्यम्

प्रथमावृत्तिः

TBD.

काशिका

शप् श्यनित्येतयोः शतुः शीनद्योः परतो नित्यं नुमागमो भवति। पचन्ती कुले। पचन्ती ब्राह्मणी। दीव्यन्ती कुले। दीव्यन्ती ब्राह्मणी। सीव्यन्ती कुले। सिव्यन्ती ब्राह्नणी। नित्यग्रहणम् वा इत्यस्य अधिकारस्य निवृत्त्यर्थम्। इहारम्भसामर्थ्यान् नित्यम् उत्तरत्र विकल्प एव अशङ्क्येत।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

368

बालमनोरमा

तत्त्वबोधिनी

91 पचन्ती इति। कर्तरि शपि नित्यं नुम्। दीव्यन्ती इति। दिवादिभ्यः श्यनि नित्यं नुम्। पचन्ति दीव्यन्तीति बहुवचने तु `नपुंसकस्य झलचः'इति नुम्बोध्यः। स्वबिति। शोभना आपो यस्मिन्सरसीति बहुव्रीहिः। `ऋक्पूर'बिति समासान्ते प्राप्ते `न पूजना'दिति निषेधः। `द्द्यन्तरुपसर्गेभ्य'इति ईन्ब भवति, तत्र `अप इति कृतसमासान्तस्यानुकरण'मिति वक्ष्यमाणत्वात्। निरवकाशत्वं प्रतिपदोक्तत्वमिति। अयमेव पक्षः प्रबल इति `छदिरुपधिबलेर्ढ'ञिति सूत्रे मनोरमायां स्थितम्। धनेरुसिति।`जनरेसिः'इत्यत `उसि'रित्यनुवर्तमाने `अर्तिपृ?वपियजितनिधनितपिभ्यो नि'दित्यौणादिकेनेत्यर्थः। धनुभ्र्यामिति।इह `र्वोरिपधाया'इत्यादिना दीर्धो न शङ्क्यः, रेफान्तस्याऽधातचुत्वात्। एवमिति। `चक्षेः शिच्च'चादुसि। चक्षुः। `अर्चिशुचिहुसृपि'इत्यादिना जुहोतेरिसिः। `आदि'शब्देन सर्पिरर्चिरादयो ग्राह्राः। सुपुमांसीति। `पुंसोऽसुङ्'इति सूत्रे `सुटी'ति व्याचक्षाणस्य प्राचो मते जसीष्टिसिद्धावपि शसि नैतत्सिध्येत्। औङिचाऽतिप्रसङ्गः। `इतोऽत्सर्वनामस्थाने'इत्यतोऽनुवृतिं?त पर्यालोच्य सर्वनामस्थान इति यथाश्रुतं ब्राउवतां तु सर्वेष्टसिद्धिः। इति तत्त्वबोधिन्यां हलन्तनप#उ#ंसकलिङ्गप्रकरणम्।


Satishji's सूत्र-सूचिः

267) शप्श्यनोर्नित्यम् 7-1-81

वृत्ति: शप्‍श्‍यनोरात्‍परो यः शतुरवयवस्‍तदन्‍तस्‍य नित्‍यं नुँम् शीनद्योः । When a term which is part of a शतृँ-प्रत्यय: follows an अङ्गम् ending in the अवर्ण: (long or short अ) belonging to the शप्/श्यन्-प्रत्यय:, then an अङ्गम् ending in such a term will always take the नुँम् augment when the शी-प्रत्यय: or the feminine ङी-प्रत्यय: follows.

उदाहरणम् – पचत् (neuter) + औ/औट् 4-1-2 = पचत् + शी 7-1-19 (Note: The अङ्गम् (“पच”) for the शतृँ-प्रत्ययः ends in the अवर्ण: (in this case an अकारः) of the शप्-प्रत्यय:) = पच नुँम् त् + शी 7-1-81, 1-1-47 = पचन्ती 1-3-2, 1-3-3, 1-3-8 = पचंती 8-3-24 = पचन्ती 8-4-58

Similarly दीव्यत् (neuter) + औ/औट् 4-1-2 = दीव्यन्ती।