Table of Contents

<<7-1-18 —- 7-1-20>>

7-1-19 नपुंसकाच् च

प्रथमावृत्तिः

TBD.

काशिका

नपुंसकादङ्गादुत्तरस्य औङः शी इत्ययम् आदेशो भवति। कुण्डे तिष्ठतः कुण्डे पश्य। यस्य इति लोपः प्राप्तः। श्यां प्रतिषेधो वक्तव्यः। इति न भवति। दधिनी। मधुनी। त्रपुणी। जतुनी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

236 क्लीबादौङः शी स्यात्. भसंज्ञायाम्..

बालमनोरमा

308 नपुंसकाच्च। `जसः सी' त्यत्रः `शी'ति `औङ आपः' इत्यतः `औङि'ति चानुवर्तते, तदाह–क्लीबादिति। ओङित्यौकारविभक्तेः संज्ञेत्युक्तम्। ज्ञानं ई इति स्थिते।

तत्त्वबोधिनी

271 नपुसंकाच्च। `जसः शी' `औङ् आपः' इत्यतः `शी'`औङ'इति चानुवर्तत इत्यभिप्रत्याहक्लीबात्परस्येत्यादि। तदाह—इवर्णावर्णयोरिति। `ईति चे'ति चकारेण `नास्त द्धिते'इत्यतस्तद्धितोऽनुकृष्यते, तदाह—ईकार तद्धिते चेति। औङः श्यामिति। विभक्त्य पेक्षया स्त्रीलिङ्गनिर्द्देशः। नेदं वचनं कर्तव्यम्। `विभाषा ङिश्यो'रित्यतः `श्यां'मिति प्रकृतं, `न संयोगात्' इत्यतो `ने'ति च, तत्रापि सबन्धमात्रं कर्तव्यं, यस्य ईकारे तद्धिते च लोपो भवति, श्यां नेत्याकरः।

Satishji's सूत्र-सूचिः

145) नपुंसकाच्च 7-1-19

वृत्ति: क्लीबाद् औङः शी स्यात्। The affixes औ and औट् take शी as their replacement when following a neuter अङ्गम्.

उदाहरणम् –

ज्ञान + औ = ज्ञान + शी 7-1-19. Example continued in the rules below.