TBD.
सौ परतः अनडुहो ऽङ्गस्य नुमागमो भवति। अनड्वान्। हे अनड्वन्। अत्र केचितातित्यधिकारादाममोः कृतयोः नुमं कुर्वन्ति। तेन नुमा आममौ न बाध्येते, आऽमम्भ्यां च नुम् इति। अपरे तु सत्यपि सामान्यविशेषत्वे आममोः नुमश्च समावेशम् इच्छन्ति, न बाध्यबाधकभावम्, यथा चिचीषत्यादिषु दीर्घत्वद्विर्वचनयोः इति।
TBD.
261 अस्य नुम् स्यात् सौ परे. अनड्वान्..
सावनडुहः। अस्येति। अनुडुह्शब्दस्येत्यर्थः। नुम् स्यादिति। `आच्छीनद्योर्नुं'मित्यतो नुमित्यनुवृत्तेरिति भावः। नुमि मकार इत्। उकार उच्चारणार्थः। मित्त्वादन्त्यादचः परः। अनड्वान् ह् स् इति स्थितम्। ननु आम्नुमौ एतौ मित्त्वादन्त्यादच उकारात्परौ प्राप्तौ। तत्र `चतुरनडुहोः' इत्याम् सर्वनामस्थाननिमित्तकः सामान्यविहितः। `सावनडुहः' इति नुम् तु सर्वनामस्थानविशेषे सौ विहितत्वाद्विशेषविहितः। स च निरवकाशत्वात्सामान्यविहितमामं बाधेत, सोरन्यत्राऽऽम्बिधेश्चरितार्थत्वात्। तथा च `अनडुन्' इति स्यात्। `अनड्वान्' इति न स्यात्। किंच सम्बुद्धौ हे अनडुह् सिति स्थिते `अम् सम्बुद्धौ' इत्यमागम आमपवादोऽनुपदमेव वक्ष्यते। तत्र `सावनडुहः' इति नुमपि प्राप्तः, सच सम्बुद्धावसम्बुद्धौ च विहितत्वात्सामान्यविहितः। `अम्सम्बुद्धौ' इत्यम् तु सम्बुद्धावेव विहितत्वाद्विशेषविहितः। सच निरवकाशत्वात्सामान्यं नुमं बाधेत, असम्बुद्धौ सौ नुम्विधेश्चरितार्थत्वात्। ततश्च हे अनड्वन्निति न स्यात्। `हो ढः' इति ढत्वे हे अनड्वट् इति स्यादित्याशङ्क्याह–आदित्यधिकारादित्यादि, नुम्न बाध्यत इत्यन्तम्। `सावनडुहः' इति नुम्विधौ तावत् `आच्छीनद्योः' इत्यत आदिति पञ्चम्यन्तमनुवर्तते। अतोऽनडुहोऽवर्णात् परो नुमिति लाभाद्विशेषविहितेनापि `सावनडुह' इति नुमा `चतुरनडुहो'रिति सामान्यविहित आम्न बाध्यते, अवर्णात्परत्वेन विधीयमानं नुमं प्रति आम उपजीव्यत्वात्, उपजीव्योपजीवकयोर्विरोधाऽभावेन बाध्यबाधकभावविरहात्, प्रत्युत आमभावे नुमः प्रवृत्त्यसम्भवात्। तथा `अम्संबुद्धौ' इत्यमा च विशेषविहिभावेन बाध्यबाधकभावविरहात्, प्रत्युत आमभावे नुमः प्रवृत्त्यसंभवादित्यर्थः। ननु `सावनहुडः' इति नुम्विधौ आदित्यनु वर्ततां नाम, तथापि आमुपजीवकत्वं नुमो न लभ्यते, अनडुहि नुमो नकाराऽकारात्परत्वेऽपि आदित्यनुवृत्तेरविरोधादिति चेत्, मैवं-`सावनडुहः' इति नुम्विधौ मित्त्वादन्त्यादच इत्युपस्थितम्। तत्र च आदित्यनुवृत्तमन्वेति। ततस्चानडुहि योऽन्त्यरूपोऽवर्णः तस्मात्परो नुमिति लभ्यते। नकाराकारस्तु नैवंविध इत्यामुपजीवकत्वं नुमो निर्बाधमेव। एवं संबुद्धौ अमुपजीवकत्वमपि ज्ञेयम्। क्वचित्पुस्तके `आमा च नुम् न बाध्यते' इति पठ\उfffद्ते। तत्रेयं योजना–ननु `बह्वनड्वांहि कुलानी'त्यत्र `नपुंसकस्य झलचः' इति नुमपेक्षया परत्वादाम् स्यात्। कृते त्वामि पुनर्नुम्न भवति, `विप्रतिषेषेन यद्बाधितं तद्बाधितमेवे'ति न्यायादित्यत आह–`आमा च नुम्न बाध्यत' इति। `पुनः प्रसङ्गविज्ञानात्सिद्धम्' इति क्वचिद्विप्रतिषेधेन बाधितस्य पुनरुन्मेषादामि कृतेऽपि `नपुंसकस्य झलचः' इति नुम्निर्बाध इति भावः। सोर्लोप इति। `अनड्ववान् ह् स् इत्यत्र हल्ङ्यादिने'ति शेषः। ननु कृते सुलोपे हकारस्य संयोगान्तलोपे नुमो नकारस्य पदान्तत्वात् `वसुरुआंसुध्वंस्वनडुहां दः' इति दत्वं कुतो न स्यादित्यत आह–नुम्विधीति। यदि ह्रत्र नुमो नस्य दत्वं स्यात्तर्हि अनड्वाहित्यत्र नुमभावेऽपि हस्य दत्वेनैव अनड्वादिति सिद्धेर्नुम्विधिरनर्थकः स्यात्। अतो नुमो नस्य दत्वं नेति विज्ञायत इति भावः।
–