Table of Contents

<<6-4-13 —- 6-4-15>>

6-4-14 अत्वसन्तस्य च अधातोः

प्रथमावृत्तिः

TBD.

काशिका

अतु असित्येवम् अन्तस्य अधातोरुपधायाः सावसम्बुद्धौ परतः दीर्घो भवति। डवतु भवान्। क्तवतु कृतवान्। मतुप् गोमान्। यवमान्। अत्र कृते दीर्घे नुमागमः कर्तव्यः। यदि हि परत्वान् नित्यत्वाच् च नुम् स्यत्, दीर्घस्य निमित्तमतूपधा विहन्येत। असन्तस्य सुपयाः। सुयशाः। सुश्रोताः। अधातोः इति किम्? पिण्डं ग्रसते इति पिण्डग्रः। चर्म वस्ते इति चर्मवः। अनर्थको ऽप्यस्शब्दो गृह्यते, अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति इति। अन्तग्रहणम् उपदेशप्रयोगैकदेशस्य अप्यत्वन्तस्य परिग्रहार्थम्, अन्यथा मतुपो ग्रहणम् न स्याद्, उपदेशे रूपनिर्ग्रहहेतौ नायमत्वन्तः इति। असम्बुद्धौ इत्येव, हे गोमन्। सुपयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

345 अत्वन्तस्योपधाया दीर्घो धातुभिन्नासन्तस्य चासम्बुद्धौ सौ परे. उगित्तवान्नुम्. धीमान्. धीमन्तौ. धीमन्तः. हे धीमन् शसादौ महद्वत्.. भातेर्डवतुः. डित्त्वसामर्थ्यादभस्यापि टेर्लोपः. भवान्. भवान्तौ. भवन्तः. शत्रन्तस्य भवन्.. ,

बालमनोरमा

धीमत् स् इति स्थिते–आत्वसन्तस्य। `अतु' इति लुप्तषष्ठीकं पृथक्पदम्। अङ्गविशेषणत्वात्तदन्तविधिः। अधातोरित्यसन्तविशेषणम्। `नोपधाया' इत्यत उपधाया इत्यनुवर्तते। अत्वन्तस्य धातुभिन्नाऽसन्तस्य च उपधाया इति लभ्यते। `सर्वनामस्थाने चासंबुद्धौ' इत्यतोऽसंबुद्धाविति `सौ चे'त्यतः साविति `ढ्रलोपे' इत्यतो `दीर्घ' इति चानुवर्तते। तदाह–अत्वन्तस्येत्यादिना। ननु कृते अकृते च दीर्घे प्रवृत्त्यर्हस्य नुमो नित्यत्वात्परत्वाच्च मकाराऽकारान्नुमि कृते अत्वन्तत्वाऽभावात्कथमिह दीर्घ इत्यत आह–परमिति। वचनसामथ्र्यादिति। अन्यथा निरवकाशत्वापत्तिरिति भावः। ततो नुमिति। दीर्घे कृते नुमित्यर्थः। `विप्रतिषेधे यद्बाधितं तद्बाधित'मिति त्वनित्यम्, `पुनः प्रसङ्गविज्ञानात्सिद्ध'मित्युक्तेरिति भावः। धीमन्निति। `असंबुद्धौ'इत्युक्तेर्नं दीर्घ इति भावः। महद्वदिति। असर्वनामस्थानतया शसादौ नुमभावादिति भावः। `अत्वसो'रिति वक्तव्येऽन्तग्रहणन्तु अत्वन्तमात्रग्रहणार्थम्। अन्यथोपदेशे ये अत्वन्तास्त एव गृह्रेरन्न तु मतुबादयः। नह्रेते उपदेशेऽत्वन्ता इत्याहुः। नन्वधातोरित्येतदसन्तस्येव अत्वन्तस्यापि विशेषणं कुतो नेत्यत आह–धातोरपीति। अत्वन्तस्य धातुत्वेऽपि दीर्घार्थम्। अधातोरित्येतस्य अत्वन्तविशेषणत्वं नाश्रितमित्यर्थः। ननु धातुपाठेऽत्वन्तधातुरप्रसिद्ध इत्यत आह–गोमन्तमिति। `आचरति वे'त्यनन्तरम् `इत्यर्थे' इति शेषः। गोमन्तमिच्छतीत्यर्थे `सुप आत्मनः क्य' मिति क्यचि `नः क्ये' इति नियमात्पदत्वाऽभावाज्जश्त्वाऽभावे गोमत्यशब्दात् `सनाद्यन्ताः' इति धातुत्वात्कर्तरि क्विपि `यस्य हलः' `अतो लोपः' इति यलोपाऽलोपयोर्गोमच्छब्दात्सुबुत्पत्तिः। गोमानिवाचरतीत्यर्थे तु `सर्वाप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः' इति क्विपि `सनाद्यन्ताः' इति धातुत्वात्कथमस्य `उगिदचा'मिति नुमागमः, अधातोरेव उगितो नुम्विधानादित्याशङ्क्य आह–उगिदचाम#इति सूत्रे इति। `उगितः सर्वनामस्थाने' इत्येतावदेव सूत्रमस्तु, अञ्चतेरुगित्त्वादेव सिद्धेः। ?तोऽज्ग्रहणमतिरिच्यमानं नियमार्थमित्यर्थः। नियमशरीरमाह–धातोश्चेदिति। धातोश्चेदुगितः कार्यं स्यात्तर्हि अञ्चतेरेव नतु धात्वन्तरस्येति नियमार्थ'मिति पूर्वेणान्वयः। नियमस्य फलमाह–तेनेति। `रुआन्सु ध्वन्सु गतौ' इत्युगितौ धातू। ताभ्यां क्विपि `अनिदितां हल उपधायाः' इति नलोपे सुबुत्पत्तौ सोर्हल्ङ्यादिलोपे `वसुरुआंसुध्वंस्वनडुहां दः' इति दत्वे रुआत् ध्वत् इति रूपमिष्टम्। `उगितः सर्वनामस्थाने' इत्युक्ते त्वत्रापि नुम् स्यात्। कृते त्वज्ग्रहणे उक्तनियमलाभादत्र नुम् न भवतीत्यर्थः। तह्र्रेतावतैव सिद्धेऽधातोरिति किमर्थमित्यत आह–अधातोरिति त्विति। अधातुः पूर्वं भूतः अधातुभूतपूर्वः। पूर्वमधातुभूतस्यापि नुमर्थमधातोरित्येतदित्यर्थः। ततस्च `उगिदचां सर्वनामस्थाने' इत्येकं वाक्यम्। तत्र अधातोरित्यभावेऽपि अज्ग्रहणादधातोरुगित इति लाभादधातोरुगितो नलोपिनोऽञ्चतेश्च नुमागमः स्यादित्यर्थः। `अधातो'रित्यपरं वाक्यम्। उक्तोनुमागमोऽधातुभूतपूर्वस्यापि भवतीत्यर्थः। प्रकृते च क्यजाचारक्विबुत्पत्त्यनन्तरं धातुत्वे सत्यपि क्यजाद्युत्पत्तेः पूर्वमदातुत्वसत्त्वान्नुम्निर्बाध इत्यर्थः। एतत्सर्वम् `उगिदचा'मिति सूत्रे भाष्ये स्पष्टम्। अत्र क्यच्पक्षे दीर्घे नुमि च कर्तव्येऽल्लोपो न स्थानिवत्, दीर्घविधौ तन्निषेधात्, `क्वौ लुप्तं न स्थानिव'दित्युक्तेश्च। अथ भवच्छब्दे विशेषमाह–भातेर्डवतुरिति। उणादिसूत्रमेतत्। भाधातोर्डवतुः स्यादित्यर्थः। डकार इत्। उकार उच्चारणार्थः। डित्त्वसामथ्र्यादभस्यापि टेर्लोपः। `भवत्' इति रूपम्। भवानिति। भवच्छब्दात्सुः। `अत्वसन्तस्ये'त दीर्घः। `उगिदचा'मिति नुम्, हल्ङ्यादिलोपः, संयोगान्तलोपश्चेति भावः। शत्रन्तस्य त्विति। `लटः शतृशानचौ' इति भूधातोर्लटः शत्रादेशः। शकार इत्, ऋकार इत्, शप्, गुणः, अवादेशः , पररूपम्, भवत् इति रूपम्। तस्य तु अत्वन्तत्वाऽभावादत्वसन्तस्येति दीर्घो न भवति। तत्र उकारानुबन्धग्रहणादित्यर्थः। भवन्निति। सौ नुमि हल्ङ्यादिलोपे संयोगान्तलोपः। भवन्तावित्यादि तु पूर्ववदेवेति भावः। दाञ्धातोर्लटः शत्रादेशे शप्। `जुहोत्यादिभ्यः श्लुः' `श्लौ' इति द्वित्वम्, अभ्यासह्यस्वः, `श्नाभ्यस्तयोरातः' इत्याल्लोपः। दददिति रूपम्। ततः सुबुत्पत्तिः।

तत्त्वबोधिनी

378 अत्वसन्तस्य चाऽधातोः। `ढ्रलोपे'सूत्राद्दीर्घस्य `नपोधायाः'इत्यपधाग्रहणस्य चानुवर्तनादाह–उपधाया दीर्घः स्यादिति। इह `अधातो'रिति योगो विभज्यते, तत्सामथ्र्यादनन्तरस्याऽसन्तस्यैव प्रतिषेधः, न त्वत्वन्तस्येति कैयटादयः। तदेतद्दर्शयति—धातुभिन्नाऽसन्तस्य चेति। धात्ववयवभिन्नो योऽस् तदन्तस्येत्यर्थः। तेन `उखास्त्रत्'पर्णध्व'दित्यादि सिद्धम्। `धातुभिन्नो योऽसन्तस्तस्ये'ति व्याख्यायां `स्त्रत्'`ध्व'दित्यत्र सिद्धान्ते दीर्घाऽभावेऽप्यत्र तु स्यादेवेति दिक्। अत्र `सर्वनाम स्थाने चे'ति सूत्रादसंबुद्धावित्यनुवर्तते। `सौ चे'त्यतः `सा'विति च। तदाह–असंबुद्धौ सौ पर इति। अत्वन्तत्वाभावादिति। `अतु'इत्यकारानुबन्धस्याऽनुकरणाच्छत्रन्तस्य न भवतीत्यर्थः। उभे। शब्दरूपाऽपेक्षया नपुंसकनिर्देशः। षाष्ठाद्वित्वेति। `अनन्तस्य विधिर्वा भवति प्रतिषेधो वे'ति न्यायादिति भावः।

Satishji's सूत्र-सूचिः

239) अत्वसन्तस्य चाधातोः 6-4-14

वृत्ति: अत्वन्तस्योपधाया दीर्घो धातुभिन्नाऽसन्तस्य चाऽसम्बुद्धौ सौ परे। When the “सुँ” affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” or a base that ends in “अस्” which is not of a verbal root, has its penultimate letter elongated.

गीतासु उदाहरणम् – श्लोकः bg16-14

बलवत् + सुँ 4-1-2 = बलवात् + स् 6-4-14, 1-3-2
Note: 7-1-70 is actually a later rule, and also an invariable rule (नित्य-कार्यम्) compared to 6-4-14. So as per 1-4-2, we should apply 7-1-70 before 6-4-14. But if we do that then the mention of “अतु” in 6-4-14 would become useless – it would never find application because then the उपधा would always be a नकार:। So on the basis of वचनसामर्थ्यात् we apply 6-4-14 before 7-1-70.
Now we get बलवान्त् + स् 7-1-70, 1-1-47, 1-3-2, 1-3-3 = बलवान्त् 6-1-68 = बलवान् 8-2-23. Note: After this 8-2-7 cannot be applied because of 8-2-1.