TBD.
सावसम्बुद्धौ परतः इन्हन्पूषर्यम्णाम् उपधाया दीर्घो भवति। दण्डी। वृत्रहा। पूषा। अर्यमा। असम्बुद्धौ इति किम्? हे दण्डिन्। हे पूषन्। हे अर्यमन्।
TBD.
287 इन्नादीनामुपधाया दीर्घोऽसंबुद्धौ सौ. वृत्रहा. हे वृत्रहन्..
सौ च। पूर्वसूत्रमनुवर्तते। तत्र यदनुवृत्तं तच्च। तदाह–इन्नादीनामिति। असम्बुद्धाविति। `सर्वनामस्थाने चे'त्यतस्तदनुवृत्तेरिति भावः। `इन्हन्पूषे'त्यस्यायमपवादः। हे वृत्रहन्निति। `असम्बुदधा'वित्यनुवृत्तेर्न दीर्घः। भिन्नपदत्वादाह–एकाजिति। वृत्रहणावित्यादि। शावेवेति नियमान्न दीर्घः। शसादावचि अल्लोपे कृते-।
317 सौ चेति। `शिस्वो'रिति वक्तव्ये योगविभाग उत्तरार्थः। वृत्रहेति। वृत्रं हतवान्। `ब्राहृभ्रूणे'ति क्विप्।
196) सौ च 6-4-13
वृत्ति: इन्नादीनामुपधाया दीर्घोऽसम्बुद्धौ सौ परे। The penultimate letter (उपधा) of terms ending in “इन्”, “हन्”, “पूषन्” and “अर्यमन्” is lengthened when the सुँ-प्रत्यय: – which is not सम्बुद्धि: – follows.
Examples continued from above:
दु:खहन् + स् = दु:खहान् + स् 6-4-13 = दु:खहान् 6-1-68 = दु:खहा 8-2-7
योगिन् + स् = योगीन् + स् 6-4-13 = योगीन् 6-1-68 = योगी 8-2-7