Table of Contents

<<6-4-14 —- 6-4-16>>

6-4-15 अनुनासिकस्य क्विझलोः क्ङिति

प्रथमावृत्तिः

TBD.

काशिका

अनुनासिकान्तस्य अङ्गस्य उपधायाः दीर्घो भवति क्विप्रत्यये परतो झलादौ च क्ङिति। प्रशान्। प्रतान्। झलादौ किति शान्तः। शान्तवान्। शान्त्वा। शान्तिः। ङिति खल्वपि शंशान्तः। तन्तान्तः। यङ्लुगन्तादयं तस्। अनुनासिकस्य इति किम्? ओदनपक्। पक्वः। पक्ववान्। क्विझलोः इति किम्? गम्यते। रम्यते। क्ङिति इति किम्? गन्ता। रन्ता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

730 अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च क्ङिति. इदमिवाचरति इदामति. राजेव राजानति. पन्था इव पथीनति..

बालमनोरमा

491 अनुनासिकस्य। अङ्स्येत्यधिकृतमनुनासिकेन विशेष्यते। तदन्तविधिः। `नोपधायाःट इत्यत उपधाया इति, `ढ्रलोपे' इत्यतो दीर्घ इति चानुवर्तते। तदाह– अनुनासिकान्तस्येत्यादिना। इदामतीति। `हलन्तेभ्य आचारक्विप् नास्ती'ति `ह्यस्वनद्यापः' इति सूत्रभाष्ये स्पष्टमिति शब्देन्दुशेखरे स्थितम्। पथीनतीति। पथिन्शब्दात्क्विपि `अनुनासिकस्ये'ति इकारस्य दीर्घः। इदं तु माधवानुरोधेन। क्विबभ्युपगमेऽपि तिपि पथेनतीत्येव युक्तम्, `इन्ह'न्निति नियमेन दीर्घाऽप्राप्तेः। न च नियमस्य अन्तरङ्गत्वात्? `अनुनासिकस्येटत्युपधादीर्घापत्तेरित्याहुः। देवतीतीति। दिव्शब्दादाचारक्विबन्ताच्छपि लघूपधगुणः। `नः क्ये' इति नियमेन अपदान्तत्वात् `दिव उ'दित्युत्त्वं नेति भावः। अत्र ऊठीति। दिव्शब्दात् क्विपि `च्छ्वो'रिति वकारस्य ऊठि कृते लघूपधगुणं बाधित्व परत्वादिकारस्य यणि द्यूशब्दाच्छपि ऊकारस्य गुणे अवादेशे च द्यवतीति रूपमुचितमित्यर्थः। चकाविति। कशब्दात्क्विबन्ताल्लिटि णलि द्वित्वे चुत्वे चक अ इति स्थिते ककारादकारस्य अतो लोपात्परत्वाद्वृद्धौ आकारे `आत औ णलः' इत्यौत्त्वे वृद्धिरेकादेश इति भावः। माधवस्त्विति। चक अ इति स्थिते पूर्वविप्रतिषेधाद्वृदिं?ध बादित्वा ककारादकारस्य अतो लोपे कृते णलोऽकारेण सह चक अ इति रूपमित्यर्थः। नचैवं सति अ इवाचरति अति, औ, अतुरित्यत्रापि लिटि `अत आदे'रिति दीर्घं बाधित्वा अतो लोपः स्यादिति वच्यं, `ण्यल्लोपा'विति पूर्वविप्रतिषेधलभ्योऽतो लोपः संनिहितमेव `अकृत्सार्वे'ति दीर्घं बाधते, ननु `अत आदे'रिति दीर्घमपि, `अनन्तरस्ये'ति न्यायादिति माधवाशय इत्याहुः। तदनाकरमेवेति. अनेकाच्त्वाऽभावादिति भावः। वस्तुतस्तु `प्रत्ययग्रहणमपनीये'त्यस्य भाष्ये अदर्शनात् प्रत्ययान्तत्वादाम्भवत्येवेति युक्तमेवेत्यनुपदमेवोक्तम्।

तत्त्वबोधिनी

421 अनुनासिकस्य। `अङ्गस्ये'ति विशेष्यसन्निधानात्तदन्तलाभः। `ढ्रलोपे' इत्यतो दीर्घग्रहणं, `नोपधायाः' इत्यत उपधाग्रहणं चानुवर्तते। तदाह- - अनुनासिकान्तस्येत्यादि। झलादाविति। एतच्च `यस्मिन्विधिस्तदादावल्ग्रहणे' इति परिभाषया लभ्यते। झलादौ किति शान्तो दान्त इत्युदाहरणं, ङिति तु यङ् लुकि– तसि शंशान्तः दंदान्तः। पथीनतीति। अन्तरङ्गत्वाद्दीर्घस्ततो न गुण इत्याहुः। `इन्ह' न्नित्यनेन शावेवेति नियमाद्दीर्घाभावे गुणे सति `पथेनती'न्निति नियमो, न तु पथ्यादीनाम्। एतेषां तु शौ परतः सुपन्थानीत्यादावुपधादीर्घप्रवृत्तावपि `इतोऽत्सर्वनामस्थाने' इत्यत्वे कृते `इन्ह' न्निति नियमाऽप्रवृत्तेः। अन्यथा पन्थानौ पन्थान इति न सिध्येत्। तथा च पथीनतीत्यात्याद्येव साध्वित्यपरे। देवतीति माधव इति। अपदान्तत्वाद्दिव उन्न। अत्रेति। लघूपधगुणं बाधित्वान्तरङ्गत्वादूठि यण्। तस्मिन्कर्तव्ये बहिरङ्गस्याप्यूठो नाऽसिद्धत्वं, `नाजानन्तर्ये' इति निषेधात्। न च वर्णादाङ्गस्य बलीयस्त्वाद्यणं बाधित्वा लघूपधगुणः स्यादिति वाच्यं, व्याश्रयत्वात्। अत एव सिवेरौणादिके नप्रत्यये स्योनशब्दः सिध्यतीति भावः। क इवेति। को– ब्राहृआ। चक इतीति। नन्वेवमौ अतुरित्यत्रापि `अत आदेः' इति दीर्घं बाधित्वा `अतो लोप' एव स्यादिति चेत्। अत्राहुः– `ण्यल्लोपौ' इति वचनेन जायमानो योऽतो लोपः स तु सन्निहितमेव `अकृत्सार्वे'ति दीर्घं बाधते, अनन्तरस्येति न्यायात्, न तु व्यवहितमपि `अत आदे'रिति दीर्घमिति माधवाशान्नानेन तद्ग्रन्थस्य विरोध इति। अनाकरमेवेति। अनेकाच्त्वाऽभावादित्यर्थः। अन्ये तु भाष्ये `प्रत्ययग्रहणमनीये' इत्यनुक्तत्वात्प्रत्ययान्ततया स्वामासेत्यादि रूपं शुद्धमेवेत्याहुः।

Satishji's सूत्र-सूचिः

TBD.