TBD.
तुल्यबलविरोधो विप्रतिषेधः। यत्र द्वौ प्रसङ्गावन्यार्थवेकस्मिन् युगपत् प्राप्नुतः, स तुल्यबलविरोधो विप्रतिषेधः। तस्मिन् विप्रतिषेधे परं कार्यं भवति। उत्सर्गापवादनित्यानित्यान्तरङ्गबहिरङ्गेषु तुल्यबलता न अस्ति इति न अयम् अस्य योगस्य विषयः। बलवतैव तत्र भवितव्यम्। अप्रवृत्तौ, पर्यायेण वा प्रवृत्तौ प्राप्तायां वचनम् आरभ्यते। अतो दीर्घो यञि 7-3-101, सुपि च 7-3-102 इत्यस्य अवकाशः वृक्षाभ्याम्, प्लक्षाभ्याम्। वहुवचने झल्येत् 7-3-103 इत्यस्य अवकाशः वृक्षेषु, प्लक्षेषु। इह उभयं प्राप्नोति वृक्षेभ्यः, प्लक्षेभ्यः इति। परं भवति विप्रतिषेधेन।
TBD.
113 तुल्यबलविरोधे परं कार्यं स्यात्. इति लोपे प्राप्ते. पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव. मनोरथः..
174 ननु परत्वाद्रेफलोप एव स्यादिति शङ्कितुमाह–विप्रतिषेधे। विप्रतिपूर्वात्सेधतेर्घञि उपसर्गवशात्परस्परविरोधे विप्रतिषेधशब्दः। विरोधश्च तुल्यबलयोरेव लोकसिद्धः। नहि मशकसिंहयोर्विरोध इत्यस्ति। तदाह–तुल्यबलेति। द्वयोः शास्त्रयोः क्वचिल्लब्धावकाशयोरेकत्र लक्ष्ये युगपत्सम्भवस्तुल्यबलविरोधः। कार्यस्य परत्वञ्च-परसास्त्रविहितत्वमेव। इति लोपे च प्राप्त इति। `हशि चे'त्यस्यावकाशः-शिवो वन्द्य इति। रेफलोपस्यावकाशः-पुना रमते इति। तत्र हि रोरित्युकारानुबन्धग्रहणाद्धसिचेत्यप्रसक्तम्। ततश्च तयोस्तुल्यबलयोः उत्वरेफलोपयोर्मनोरथ इत्यत्र युगपत्सम्भवादन्यतरस्मिन् बाधनीये सति परत्वादुत्वं बाधित्वा रेफलोपे प्राप्ते इत्यर्थः। पूर्वत्रेति। अत्र रेफलोपस्यासिद्धत्वादित्यनुक्त्वा रो रीत्यस्यासिद्धत्वादिति ब्राउवन् पूर्वत्रासिद्धमित्य्तर शास्त्रासिद्धत्वमेवाभ्युपैति, नतु कार्यासिद्धत्वम्। तथा सति हि अतिदेशस्यारोपरूपत्वादऽसिद्धत्वोरोपान्निरधिष्ठानारोपाऽसम्भवेन सूत्रोदाहरणसम्पत्त्यै परत्वाल्लक्ष्ये कार्यप्रवृत्तेरावश्यकतया परत्वात्त्रैपादिके कार्ये जाते तत्राऽभावप्रतियोगित्वारोपेऽपि देवदत्तस्य न पुनरुन्मज्जनमिति न्यायेन स्थानीबूतरोरभावाद्धशि चेत्यस्य प्राप्तिर्न स्यात्। शास्त्राऽसिद्धत्वे तु यद्यत्रैपादिकं शास्त्रं प्रवृत्त्युन्मुखं तत्त्च्चास्त्र एवासिद्धत्वारोपात्पूर्वशास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्धौ सत्यां `विप्रतिषेधे परं कार्य'मिति न प्रवर्तते। तदुक्तं–`पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये'ति ततश्च स्थानिनो निवृत्त्यभावात्पूर्वशास्त्रप्रवृत्तिर्निर्बाधा। एतच्च पूर्वत्रासिद्धमित्यत्र, अचः परस्मिन्नित्यत्र, षत्वतुकोरसिद्ध इत्यत्र च भाष्ये स्पष्टम्। न च तौ सदित्यादिनिर्देशाद्देवदत्तहन्तृन्यायो न सार्वत्रिक इति वाच्यं, `हते सति देवदत्ते तद्धन्तरि हतेऽपि देवदत्तस्य न पुनरुन्मेषः। हन्तृहन्तरि हतत्वारोपे तु सुतरां नोन्मेषः। देवदत्तं हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य जीवनमस्त्येवे'ति न्यायशरीरम्। तावित्यादौ च वृद्धिहन्तुः पूर्वसवर्णदीर्घस्य हननोद्यमसजातीयं प्रसङ्गमात्रम्। न तु हननस्थानीया लक्ष्ये कार्यप्रवृत्तिरावश्यकी। ततस्च प्रवृत्तस्य रेफलोपस्याऽसिद्धत्वेऽपि देवदत्तहन्तृहतन्यायेन रोरुन्मेषा।ञभावादुत्वं न भवतीति शब्दरत्ने प्रपञ्चितम्। न च उत्वकार्यासिद्धत्वपक्षे।ञपि मनोरथसिद्धिरस्त्येव, दर्शनाऽभावरूपरेफलोपस्याभावरूपा।ञसिद्धत्व सति रोरुन्मेषावश्यकत्वात्, अभावाभावस्य प्रतियोगिरूपत्वादिति वाच्यं, एवमपि कार्यासिद्धत्वे अमू अमी इत्याद्यसिद्धेः। यता चैतत्तथा अदस्?शब्दनिरूपणावसरे प्रपञ्चयिष्यते।
144 विप्रतिषेधे। विप्रतिपूर्वात् `षिधू शास्त्रे माङ्गल्ये च'षिधं गत्या'मित्यस्माद्वा धातोर्घञ्। `उपसर्गात्सुनोती'ति षत्वम्। उपसर्गवशाच्च विरोधार्थकत्वम्। कार्यमिति। `अर्हे कृत्यतृचश्चे'त्यर्हार्थे कृत्यप्रत्ययः। तेन तुल्यबलविरोध इति पर्यवसानादतुल्यबलेषूत्सर्गापवादनित्यानित्यान्तरङ्गबहिरङ्गविधिषु नेदं प्रवर्तते। नह्रपवादादीनां संनिधावुत्सर्गादीनां कृत्यर्हत्वं, तैर्बाधितत्वात्। तत्र नित्यमावश्यकत्वाद्बाधकम्, अन्तरङ्गं तु लाघवात्, अपवादस्तु वचनप्रामाण्यात्। तद्भिन्नस्तु प्रकृतसूत्रस्य विषयः। अतएव `परनित्यान्तरङ्गपवादानामुत्तरोत्तरं बलीयः' इत्युक्तम्। यद्यतुल्यबलेप्वपि परमेव स्यात्तन्नोपपद्येताऽतो व्याचष्टे- तुल्यबलविरोध इति। जातौ पदार्थे विध्यर्थमिदं सूत्रम्। `वृक्षेषु' `वृक्षाभ्यां' मित्यत्र हि लब्धावकासयोरेत्वदीर्घत्वशास्त्रयोर्वृक्षेभ्य इत्यत्र युगपत्प्रसङ्गे विनिगमकाऽभावादप्रतिपत्तिरेव स्यात्। तदुक्तम्-`अप्रतिपत्तिर्वा उभयोस्तुल्यबलत्वा'दिति। तत्रास्माद्वचनात्परस्मिन् कृते यदि पूर्वस्यापि निमित्तमस्ति तर्हि तदपि भवति, यथा `भिन्धकी'त्यत्र परत्वाद्धिभावे कृतेऽ[प्य]कच्। तदुच्यते-`पुनः प्रसङ्गविज्ञानात्सिद्ध'मिति। ब्यक्तौ तु पदार्थे तत्तव्द्यक्तिविषययोर्लक्षणयोरन्यत्र चरितार्थत्वाऽसम्भवात्तव्यानीयरामिव पर्यायेण प्रवृत्तौ नियमार्थमिदं सूत्रं `विप्रतिषेधे परमेव स्यान्न तु पूर्व'मिति। एतल्लक्षणारम्भाच्च तत्र तत्र पूर्वस्यानारम्भोऽनुमीयते। तथाच `जुहुतात्त्व'मित्यत्र परत्वात्तातङि कृते स्थानिवद्भावेन `हुझल्भ्यः'-इति धित्वं न भवति। तदुच्यते-`सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्बाधितमेवे 'ति। लक्ष्यानुरोधाव्द्यवस्थाप्यमेतद्दूयमपि। तत्र विधिपक्षे तूत्त्वे रेफलोपे वा प्राप्ते इति पाठ\उfffद्म्। नियमार्थमिति पक्षे `परमेव कार्यं स्या'दित्येवकारोऽध्याहर्तव्यो वृत्तौ। उत्वमेवेति। सिद्धासिद्धयोरतुल्यबलत्वेन `विप्रतिषेधे पर'मित्यस्याऽप्रवृत्तौ निष्प्रतिपक्षत्वादुत्वमेव भवतीत्यर्थः। तदुक्तम्–`पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये'ति। एतेन विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे' इति वक्ष्यमाणग्रन्थो व्याख्यात।
TBD.