Table of Contents

<<4-1-89 —- 4-1-91>>

4-1-90 यूनि लुक्

प्रथमावृत्तिः

TBD.

काशिका

प्राग् दीव्यतः इति वर्तते, अचि च। प्राग्दीव्यतीये अजादौ प्रत्यये विवक्षिते बुद्धिस्थे ऽनुत्पन्न एव युवप्रत्ययस्य लुग् भवति। तस्मन् निवृत्ते सति यो यतः प्राप्नोति स ततो भवति। फाण्टाहृतस्य अपत्यं फाण्टाहृतिः। तस्य अपत्यं युवा, फाण्टाहृतिमिमताभ्यां णफिञौ 4-1-150, फाण्टागृतः। तस्य छाऽत्राः इति विवक्षिते ऽर्थे बुद्धिस्थे युवप्रत्यय्स्य लुग् भवति। तस्मिन् निवृत्ते इञन्तं प्रकृतिरूपं सम्पन्नम्। तस्मातिञश्च 4-2-112 इत्यण् भवति, फाण्टाहृताः। भागवित्तस्य अपत्यं भागवित्तिः। तस्य अपत्यं युवा, वृद्धाट् ठक् सौवीरेषु बहुलम् 4-1-148 इति ठक्, भागवित्तिकः। तस्य छात्राः, पूर्ववद् युवप्रत्यये निवृत्ते, इञश्च 4-2-112 इत्यण्, भागवित्ताः। तिकस्य अपत्यं, तिकादिभ्यः फिञ् 4-1-154, तैकायनिः। तस्य अपत्यं युवा, फेश् छ च 4-1-149 इति छः, तैकायनीयः। तस्य छात्रः, युवप्रत्यये निवृत्ते वृद्धाच् छः 4-2-114, तैकायनीयाः। कपिञ्जलादस्य अपत्यं कापिञ्जलादिः। तस्य अपत्यं युवा, कुर्वादिभ्यो ण्यः 4-1-151, कापिञ्जलाद्यः। तस्य छात्राः, ण्ये निवृत्ते इञश्च 4-2-112 इत्यण्, कापिञ्जलादाः। ग्लुचुकस्य अपत्यं, प्राचाम् अवृद्धात् फिन् बहुलम् 4-1-160 इति ग्लुचुकायनिः। तस्य अपत्यं युवा, प्राग्दीव्यतो ऽण् 4-1-83, ग्लौचुकायनः। तस्य छात्राः, युवप्रत्यये निवृत्ते स एव अण्, ग्लौचुकायनाः। अचि इत्येव, फाण्टाहृतरूप्यम्। फाण्टाहृतमयम्। प्राग्दीव्यतः इत्येव, भागवित्तिकाय हितं भागवित्तिकीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1066 यूनि लुक्। प्राग्दीव्यत इत्यनुवृत्तेः प्रत्ययाधिकाराच्च `प्राग्दीव्यतीये प्रत्यये' इति लभ्यते। अचीति प्रत्ययविशेषणं, तदादिविधिः। विषयसप्तम्येषा, नतु परसप्तमी। तदाह–अजादौ प्राग्दीव्यतीये विवक्षिते इति। युवप्रत्ययस्येति। युवार्थकप्रत्ययस्येत्यर्थः। लुकः प्रत्ययाऽदर्शनत्वात्प्रत्ययस्येति लभ्यत इति भावः। ननु ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिरिति कथम्, `अत इ'ञितीञः प्राप्तेरित्यत आह–वक्ष्यमाण इति। `प्राचामवृद्धात्फिन्बहुल'मित्यनेने'ति शेषः। आयन्नादेशे ग्लुचुकायनिरिति रूपमिति भावः। तत इति। ग्लुचुकायनेरपत्यार्थे `तस्यापत्य'मित्यणि आदिवृद्धौ `यस्येति चे'ति लोपे `ग्लौचुकायन' इति रूपमित्यर्थः। तस्येति। ग्लौचुकायनस्य छात्र इत्यर्थे तस्येदमित्यणि युवापत्याऽणो लुकि `ग्लौचुकायन' इत्येव रूपमित्यर्थः। ननु युवापत्याऽणः `यस्येति चे'ति लोपेनैव छात्रार्थे ग्लौचुकायन इति रूपसिद्धेस्तस्य लुग्विधिरनर्थक इत्यत आह–अणो लुकीति। छात्रार्थकछप्रवृत्तेः प्रागेव युवप्रत्ययस्याऽणो लुकि आदिवृद्धेर्निवृत्तौ ग्लुचुकायनिशब्दस्य वृद्धत्वाऽभावाच्छो न भवति। युवप्रत्ययस्य लुगभावे तु वृद्धत्वाच्छः स्यात्। अतदर्थमेव युवप्रत्ययस्य लुग्विधानमित्यर्थः। स्थितश्चातुर्थिको युवप्रत्ययलुक्। तत्प्रसङ्गाद्द्वैतीयीको युवप्रत्ययलुगनुक्रम्यते-।

तत्त्वबोधिनी

893 यूनि लुक्। प्राग्दीव्यतीय इति वर्तते, अचीति च, प्रत्ययाधिकाराच्च प्रत्यय इति लभ्यते। तदेतदाह—प्राग्दीब्यतीयेऽजादौ प्रत्यय इति। `प्रत्ययस्य लु'गिति संज्ञाकरणाल्लब्धो यः प्रत्ययः, सः `यूनी'त्यनेन विशेष्यते। तथा च `यूनियः प्रत्ययस्तस्य लु'गित्यर्थस्तदाह।

Satishji's सूत्र-सूचिः

TBD.