Table of Contents

<<4-1-148 —- 4-1-150>>

4-1-149 फेश् छ च

प्रथमावृत्तिः

TBD.

काशिका

कुत्सने इत्येव, सौवीरेषु इति च। फेः इति फिञो ग्रहणं न फिनः, वृद्धाधिकारात्। फिञन्तात् प्रातिपदिकात् सौवीरगोत्रादपत्ये छः प्रत्ययो भवति, चकाराट् ठक्, कुत्सने गम्यमाने। यमुन्दस्य अपत्यं, तिकादिभ्यः फिञ् 4-1-154। तस्यपत्यं यामुन्दायनीयः, यामुन्दायनिकः। कुत्सने इत्येव, यामुन्दायनिः। फिञन्तादौत्सर्गिकस्य अण आगतस्य ण्यक्षत्रियार्षञितो यूनि लुगणिञोः 2-4-58 इति लुक्। सौवीरेसु इत्येव, तैकायनिः। यमुन्दश्च सुयामा च वार्ष्यायणिः फिञः स्मृताः। सौवीरेषु च कुत्सायां द्वौ योगौ शब्दवित् समरेत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1156 फेश्छ च। `छे'ति लुप्तप्रथमाकम्। यमुन्दस्येति ष यमुन्दो नाम सुवीरदेशे कश्चित्। यामुन्दायनिरिति। यामुन्दायनेरपत्यं युवेत्यर्थे कुत्सनाऽभावाच्छठगभावे `तस्यापत्य'मित्यण्। `ण्यक्षत्रियार्षे'ति तस्या लुगित्यर्थः। तैकायनिरिति। तैकायनेरपत्यं युवेत्यर्थेऽसौवीरत्वाच्छठगभावे `तस्यापत्य'मित्यण्। `ण्यक्षत्रिये' ति तस्य लुगित्यर्थः। तैकायनिरिति। तैकायनेरपत्यं युवेत्यर्थेऽसौवीरत्वाच्छठगभावे `तस्यापत्य'मित्यण्। `ण्यक्षत्रिये'ति तस्य लुगिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.