TBD.
तेन दीव्यति इति वक्ष्यति। तदेकदेशो दीव्यच्छब्दो अवधित्वेन गृह्यते। प्राग् दीव्यत्संशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यमः, अण् प्रत्ययस् तत्र भवति इति वेदितव्यम्। अधिकारः, परिभाषा, चिधिर्वा इति त्रिष्वपि दर्शनेष्वपवादविषयं परिगृत्य अण् प्रवर्तते। वक्ष्यति, तस्य अपत्यम् 4-1-92 औपगवः। कापटवः।
TBD.
–
1057 प्राग्दीव्यतोऽण्। `तेन दीव्यति खनति जयति जित'मिति सूत्रस्थदीव्यतिशब्दैकदेशस्यानुकरणमिह दीव्यच्छब्दः। तेन च तद्घटितं तत्सूत्रं लक्ष्यते। तदाह–तेन दीव्यतीत्यतः प्रागिति। तथाच `तस्यापत्य'मित्याद्युत्तरसूत्रेषु विधेयप्रत्ययविशेषाऽसंयुक्तेषु किं भवतीत्याकाङ्क्षायामणित्युपतिष्ठत इति लभ्यते। `कस्माद्भवती'त्याकाङ्क्षायां `समर्थात्प्रथमा'दिति प्रकृतिविशेषो लभ्यते। यत्र तु विधेयः प्रत्ययविशेषः श्रूयते तत्राऽणिति नोपतिष्ठते, अमित्यस्यौत्सर्गिकतया वैशेषिकेणेञादिना बाधात्।
883 प्राग्दिश इतीति। तत उत्तरेषां प्रत्ययानां स्वार्थिकत्वेन `समर्थानां', `प्रथमा'दिति पदयोः प्रयोजनं नेति भावः। ननु `समर्थः पदविधि'रिति परिभाषया गतार्थत्वात् `समर्थाना'मित्येतव्द्यर्थम्। न च पदविधित्वं नेति शङ्क्यं, `घकालतनेषु'इत्यलिग्विधानात् `सुबन्तात्तद्धितोत्पत्ति'रिति सिद्धान्तस्य सकलसंमतत्वादत आह–सामथ्र्यमिति। कृतसन्धिकार्यत्वमिति। अस्य फलं तु `तस्यापत्य'मिति सूत्रे मूल एव स्फुटीभविष्यति। इह `समर्थात्प्रथमाद्वे'ति वक्तुं युक्तम्। महोत्सर्गानाह—प्राग्दीव्यत इत्यादीना। सूत्रे `दीव्य'दित्येकदेशोऽनर्थकोऽप्यवधित्वेनोपात्तः `प्राग्री\उfffदारा'दितिवदित्येके। अन्ये त्वाहुः–`दीव्य'दिति शत्रन्तम्। तेन देवनकर्ता अर्थ एवावधिरिति।
TBD.