Table of Contents

<<4-1-149 —- 4-1-151>>

4-1-150 फाण्डाहृतिमिमताभ्यां णफिञौ

प्रथमावृत्तिः

TBD.

काशिका

सौवीरेषु इत्येव। कुत्सने इति निवृत्तम्। फाण्टाहृतिमिमतशब्दाभ्यां सौवीरविषयाभ्याम् अपत्ये णफिञौ प्रत्ययु भवतः। फको ऽपवादः। अल्पाच्तरस्य अपूर्वनिपातो लक्षणव्यभिचारचिह्नं, तेन यथासङ्ख्यम् इह न भवति इति। फाण्टाहृतः, फाण्टाहृतायनिः। मैमतः, मैमतायनिः। सौवीरेषु इत्येव, फाण्टाहृतायनः। मैमतायनः। फाण्टाहृतेः यञिञोश्च 4-1-101 इति फक्। मिमतशब्दो ऽपि नडादिषु पठ्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1157 फाण्टाह्मति। `सौवीरेष्विति। शेषपूरणमिदम्। सैवीरगोत्रादित्यर्थः। फाण्टाह्मतस्य गोत्रापत्यं फाण्टाह्मतिः, अत इञ्। तस्यापत्यं युवेति विग्रहः। मैमत इति। मिमतस्यापत्यमिति विग्रहः। मिमतशब्दे सौवीरगोत्रादिति न संबध्यते, व्याख्यानाद्गोत्रत्वाऽभावाच्चेति भावः।

तत्त्वबोधिनी

957 फाण्टाह्मति। `कुत्सने'इति निवृत्तम्। वृत्तिमते णित्त्वस्य फलमस्तीति ध्वनयन्नुदाहरति—मैमत इति। न च भाष्यमतेऽपि `फाण्टाह्मताभार्यः'इत्यत्र `वृद्धिनिमित्तस्ये'ति पुंवद्भावनिवृत्तिर्णित्त्वफलमस्तीति वाच्यम्, `अस्त्रिया'मिति युवसंज्ञानिषेधाद्गोत्रसंज्ञासद्भावात् `एको गोत्रे'इति नियमादिञन्तात्फाण्टाह्मतिशब्दादन्यस्यापत्ययस्याऽभावात्फाण्टाह्मताशब्दस्यैवाऽसत्त्वादिति भावः।

Satishji's सूत्र-सूचिः

TBD.