Table of Contents

<<4-1-88 —- 4-1-90>>

4-1-89 गोत्रे ऽलुगचि

प्रथमावृत्तिः

TBD.

काशिका

प्राग्दीव्यतः इत्येव। यस्कादिभ्यो गोत्रे 2-4-63। इत्यादिना येषां गोत्रप्रत्ययानां लुगुक्तः, तेषामजादौ प्राग्दीव्यतीये विशयभूते प्रतिषिध्यते। गर्गाणाम् छात्राः गार्गीयाः। वात्सीयाः। आत्रेयीयाः। खारपायणीयाः। गोत्रे इति किम्? कौबलम्। बादरम्। अचि इति किम्? गर्गेभ्य आगतम् गर्गरूप्यम्। गर्गमयम्। प्राग्दीव्यतः इत्येव, गर्गेभ्यो हि तम् गार्गीयम्। गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुक्। बिदानाम् अपत्यं युवा, युवानौ बैदः, बैदौ। वैदशब्दाततः इञ् कृते तस्य च इञः ण्यक्षत्रियाऽर्षञितो यूनि लुगणिञोः 2-4-58 इति लुकि रूपम्। एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि, बैदस्य बैदयोर् वा अपत्यं बहवो माणवकाः बिदाः। नह्यत्राण् बहुषूत्पन्नः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1064 गोत्रेऽलुगचि। `अलु'गिति च्छेदः। `प्राग्दीव्यत' इत्यनुवृत्तेः, प्रत्ययाधिकाराच्च प्राग्दीव्यतीये प्रत्यये इति लब्धम्। अचीति तद्विशेषणं। तदादिविधिः। विषयसप्तम्येषा, नतु परसप्तमी। तदाह–अजादावित्यादिना। गोत्रप्रत्ययस्येति। गोत्रार्थकप्रत्ययस्येत्यर्थः। लुकः प्रत्ययाऽदर्शनत्वात्प्रत्ययस्येति लब्धम्। गर्गाणां छात्रा इति। वक्ष्यमाणोदाहरणविग्रहप्रदर्शनमिदम्। गर्गस्य गोत्रापत्यं गार्ग्यः। `गर्गादिभ्यो यञ्'। गर्गस्य गोत्रापत्यानीति बहुत्वविवक्षायां यञि कृते तस्य `यञञोश्चे'ति लुकि `गर्गा' इति भवति। वृद्धाच्छ इति। गाग्र्य शब्दादुक्तेऽर्थे छप्रत्यय इत्यर्थः। छस्य ईयादेशः, तस्मिन्भविष्यति अजादौ परे `यञञोश्चे'ति प्राप्तो लुङ् न भवति।

तत्त्वबोधिनी

891 गोत्रे लुगचि। गोत्रे किम्?। गोत्रार्थकप्रत्ययस्यैवाऽलुग्यथा स्यात्। नेह– कुवलस्येदं कौवलं, बदरस्येदं बादरम्। कुवलीबदरीशब्दौ हि गौरादिङीषन्तौ, ताभायं फलरूरे विकारे `अनुदात्तादेश्चे'त्यञ्। तस्य `फले लु'गिति लुक्। तत इदमर्थे अजादिप्राग्दीव्यतीये विवक्षितेऽनेनाऽलुङ्न भवतीति वृद्धित्वाऽभावाच्छो नेति भावः। विवक्षित इति। अचीति विषयसप्तमी। परसप्तमीत्वे तु अवृद्धत्वाच्छस्याऽप्राप्तौ अणेव स्यादिति भावः।

Satishji's सूत्र-सूचिः

TBD.