Table of Contents

<<4-1-90 —- 4-1-92>>

4-1-91 फक्फिञोरन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

यूनि इत्येव। पूर्वसूत्रेण नित्ये लुकि प्राप्ते विकल्प उच्यते। फक्फिञोर् युवप्रत्यययोः प्राग्दीव्यतीये ऽजादौ प्रत्यये विवक्षिते ऽन्यतरस्यां लुग् भवति। गर्गादिभ्यो यञि कृते यञिञोश्च 4-1-101 इति फक्, गार्ग्यायणः। तस्य छात्राः गार्गीयाः, गार्ग्यायणीयाः। वात्सीयाः, वात्स्यायनीयाः। फिञः खल्वपि यस्कस्य अपत्यं, शिवादिभ्यो ऽण् 4-1-112, यास्कः। तस्य अपत्यं युवा, अणो द्व्यचः 4-1-156 इति फिञ्, यास्कायनिः। तस्य छात्राः यास्कीयाः, यास्कायनीयाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1070 `इञः प्राचा'मिति लुङ्नेत्यर्थः। अथ प्रकृतं चातुर्थिकं लुग्विधिमनुसरति– फक्फिञोरन्यतरस्यां। यूनीत्येवेति। `यूनि लु'गिति पूर्वसूत्रमनुवर्तते इत्यर्थः। `यूनि लु'गित्यक्तो लुक् फक्फिञोर्वा स्यादित्यर्थः। तदाह–पूर्वेणेति . कात्यायनस्येति। कतस्य गोत्रापत्यं कात्यः। गर्गादित्वाद्यञ्। तस्यापत्यं युवा– कात्यायनः। `यञिञोश्चे'ति फक्। कात्यायनस्य छात्रा इत्यर्थे `तस्येद'मित्यनुवृत्तौ `वृद्धाच्छः' इति छः। तस्य ईयादेशः। अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थकफको लुकि सति, कात्य-ईय इति स्थिते`यस्येति चे'त्यकारलोपे `आपत्यस्य चे'ति यलोपे `कातीया' इति रूपम्। फको लुगभावे तु `कात्यायनीया' इति रूपमित्यर्थः। यस्कस्येति। यस्कस्य गोत्रापत्यमित्यर्थे `अत इ'ञिति इञपवादः शिवाद्यणित्यर्थः। तस्येति। यास्कस्यापत्यं युवेत्यर्थे `अणो द्व्यचः'इति फिञि आयन्नादेशे यास्कायनिरिति रूपमित्यर्थः। तस्य छात्रा इति। यास्कायनेश्छात्रा इत्यर्थे `तस्येद'मित्यनुवृत्तौ `वृद्धाच्छः' इति छः। तस्य ईयादेशः। `यास्कायनीया' इति रूपम्। अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थफकिञो लुकि `यस्येति चे'त्यकारल#ओपे `यास्कीया' इति रूपमित्यर्थः।

तत्त्वबोधिनी

896 कात्यायनस्येति। कतस्य गोत्रापत्यं कात्यः। गर्गादित्वा द्यञ्। ततो यूनि `यञिञोश्चे'ति फक्। कातीया इथ। `आपत्यस्य चे'ति यलोपः।

Satishji's सूत्र-सूचिः

TBD.