Table of Contents

<<4-2-111 —- 4-2-113>>

4-2-112 इञश् च

प्रथमावृत्तिः

TBD.

काशिका

गोत्रे इत्येव। गोत्रे य इञ् विहितः तदन्तात् प्रातिप्दिकातण् प्रत्ययो भवति शैषिकः। छस्य अपवादः। दाक्षाः। प्लाक्षाः। माहकाः। गोरे इत्येव, सौतङ्गमेरिदं सौतङ्गमीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1314 इञश्च। दाक्षा इति। दक्षस्य गोत्रापत्यं दाक्षिः। `अत इञ'। दाक्षेः छात्रा इति विग्रहः। सौतङ्गमेरिदमिति। सुतङ्गमस्य निवासः सौतङ्गमिः। `सुतङ्गमादिभ्य इञ्'। सौतङ्गमेरिदमित्यर्थे वृद्धाच्छः, न त्वण्, इञो गोत्रार्थकत्वाऽभावात्। गोत्रमिह शास्त्रीयमिति। अपत्याधिकारादन्यत्र यद्यपि लौकिकमेव गोत्रमिति सिद्धान्तस्तथापि इह सूत्रद्वयेऽपि शास्त्रीयमेव गोत्रं गृह्रते, `यूनि लु'गिति सूत्रभाष्ये तथोक्तत्वादिति भावः। पाणिनीयमिति। पणिनो गोत्रापत्यं पाणिनः। तस्यापत्यं युवा– पाणिनिः। तस्येदं पाणिनीयम्। वृद्धाच्छः। अण् तु न, पाणिनिशब्दस्य युवप्रत्ययान्तत्वादिति भावः।

तत्त्वबोधिनी

1052 सोतङ्गमेरिति। सुतङ्गमादिभ्यश्चातुरर्थिक इञ्। शास्त्रीयमिति। ननु `अपत्याधिकारादन्यत्र लौकिकं गौत्रं गृह्रते'इति चेत्। अत्राहुः—`पूर्वसूत्रे गोत्रग्रहणेन पौत्रप्रभृति गोत्रं गृह्रते, कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितस्तदन्तेभ्यः'इति गोत्रप्रत्ययानुवादेन तत्राऽण्विधानात्। कण्वादयश्च गर्गाद्यन्तर्गताः। `गर्गादिभ्यो यऋ'ञित्यत्र तु `गोत्रे कुञ्जादिभ्यः'इत्यतो गोत्र इत्यनुवर्तते, न तु शास्त्रीयगोत्रमेव गृह्रते, अपत्याधिकारस्थत्वात्, तदेव हि `इञश्चे'ति सूत्रेऽनुवर्तते इथि।

Satishji's सूत्र-सूचिः

TBD.