Table of Contents

<<4-1-159 —- 4-1-161>>

4-1-160 प्राचाम् अवृद्धात् फिन् बहुलम्

प्रथमावृत्तिः

TBD.

काशिका

अवृद्धाच् छब्दरूपादपत्ये फिन् प्रत्ययो भवति बहुलं प्राचां मतेन। ग्लुचुकायनिः। अहिचुम्बकायनिः। प्राचाम् इति किम्? ग्लौचुकिः। अवृद्धातिति किम्? राजदन्तिः। उदीचां प्राचाम् अन्यतरस्यां बहुलम् इति सर्व एते विकल्पार्थस् तेषाम् एकेन एव सिध्यति। तत्र आचार्यग्रहणं पूजार्थम्। बहुलग्रहणम् वैचित्र्यार्थम्। कव्चिन् न भवत्येव, दाक्षिः। प्लाक्षिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1166 प्राचामवृद्धात्। अवृद्धसंज्ञकादपत्ये बहुलं फिन् स्यादित्यर्थः। प्राचांग्रहणं पूजार्थम्। ग्लुचुकायनिरिति। ग्लुचुकस्यापत्यमिति विग्रहः। अवृद्धात्किम्। राजदन्तिः। बहुवग्रहणान्नेह–दाक्षिः।\त्

तत्त्वबोधिनी

964 प्राचामवृद्धात्। प्राचांग्रहणं पूजार्थम्। अवृद्धादिति किम्?। राजदन्तिः। बहुग्रगणान्नेह—दाक्षिः।

Satishji's सूत्र-सूचिः

TBD.