TBD.
सौवीरेषु बहुलम् इति निवृत्तम्। कुरु इत्येवम् आदिभ्यः शब्देभ्यो ऽपत्ये ण्यः प्रत्ययो भवति। कौरव्यः। गार्ग्यः। कुरुनादिभ्यो ण्यः 4-1-172। इति कुरुशब्दादपरो ण्यप्रत्ययो भविष्यति। स तु क्षत्रियात् तद्राजसंज्ञकः। तस्य बहुषु लुका भवितव्यम्, अयं तु श्रूयत एव। कौरव्याः। कौरव्यशब्दस्य क्षत्रियवचनस्य तिकादिषु पाठात् फिञपि भवति, फौरव्यायणिः। रथकारशब्दो ऽत्र पठ्यते, स जातिवचनः। त्रैवर्णिकेभ्यः किंचिन् न्यूना रथकारजातिः। कारिणस् तु रथकारशब्दादुत्तरसूत्रेण एव ण्यः सिद्धः। केशिनीशब्दः पठ्यते, तस्य कैशिन्यः। पुंवद्भावो न भवति, स्त्रीप्रत्ययनिर्देशसामर्थ्यात्। वेनाच्छन्दसि इति पठ्यते। कथम् भाषायां वैन्यो राजा इति? छन्दस एव अयं प्रमादात् कविभिः प्रयुक्तः। वामरथशब्दः पठ्यते, तस्य कण्वादिवत् कार्यम् इष्यते। स्वरं वर्जयित्वा लुगादिकम् अतिदिश्यते। बहुसु वामरथाः। स्त्री वामरथी। वामरथ्यायनी। युवा वामरथ्यायनः। वामरथ्यस्य छात्राः वामरथाः। वामरथानि सङ्घाङ्कलक्षणानि। स्वरस् तु ण्यप्रत्ययस्य एव भवति, न अतिदेशिकमाद्युदात्तत्वम्। कुरु। गर्ग। मङ्गुष। अजमारक। रथकार। वावदूक। सम्राजः क्षत्रिये। कवि। मति। वाक्। पितृमत्। इन्द्रजालि। दामोष्णीषि। गणकारि। कैशोरि। कापिञ्जलादि। कुट। शलाका। मुर। एरक। अभ्र। दर्भ। केशिनी। वेनाच्छन्दसि। शूर्पणाय। श्यावनाय। श्यावरथ। श्यावपुत्र। सत्यङ्कार। बडभीकार। शङ्कु। शाक। पथिकारिन्। मूढ। शकन्धु। कर्तृ। हर्तृ। शाकिन्। इनपिण्डी। वामरथस्य कन्वादिवत् स्वरवर्जम्।
TBD.
–
1158 कुर्वादिभ्यो ण्यः। अपत्ये इति। शेष पूरणमिदम्। `सौवीरेष्वि'ति निवृत्तम्। कौरव्या ब्राआहृणा इति। कुरुर्नाम कश्चिद्ब्राआहृणः। तस्यापत्यानीति विग्रहः। ण्यप्रत्यये ओर्गुणे अवादेशः। आदिवृद्धिः। यस्तु `कुरुनादिभ्यो ण्यः' इति ण्यो वक्ष्यते, तस्य तद्राजत्वाद्बहुषु लुकि-`कुरवः क्षत्रियाः' इति भवति। एतत्सूचनार्थमेव बहुवचनं, `ब्राआहृणा' इति विशेष्यं चोदाह्मतम्। वावदूक्या इति। वावदूकस्यापत्यानीति विग्रहः। सम्राजः क्षत्रिये इति। कुर्वादिगणसूत्रम्। `अपत्ये' इति शेषः। क्षत्रिय एवेति नियमार्थमिदम्। साम्राजोऽन्य इति। सम्राजः क्षत्रिये इति। कुर्वादिगणसूत्रम्। `अपत्ये' इति शेषः। क्षत्रिय एवेति नियमार्थमिदम्। साम्राजोऽन्य इति। सम्राजः शूद्रादौ उत्पन्न इत्यर्थः।
958 कुर्वादिभ्यो। `सौवीरेषु'इत्यपि निवृत्तम्। कौरव्या ब्राआह्णण इति। यत्तु `कुरुनादिभ्यो ण्य'इति वक्ष्यति तस्य तद्राजत्वाद्बहुषु लुकि `कुरवः क्षन्त्रियाः' इति भवति, न तु `कौरव्याः'इति भावः। वावदूक्या इति। बदेर्यंङन्तादूकप्रत्ययः। स चात्रैव गणे निपातनादित्याहुओः। कुरु, गर्ग, वावदूक। सम्राजः क्षत्त्रिये इति। सम्राट्शब्दाण्ण्य इत्यर्थः। `वामरथस्य कण्वादिवत्स्वरवर्जम्'। यञन्तस्य काव्यशब्दस्य यत्कार्यं तण्ण्यप्रत्ययान्तस्य वामरथ्यशब्दस्य स्यात्। आद्युदात्तं विनेत्यर्थः। बहुत्वे `यञञोश्चे'ति लुक्। वामरथाश्छात्राः। `कण्वादिभ्यो गोत्रे'इति छापवादोऽण्। वामरथी। वामरथ्यायनी स्त्री। `यञश्च'। `प्राचां ष्फ तद्धितः' इति ङीष्ष्फौ। वामरथानि सङ्घाङ्कलक्षणानि। `सङ्घाङ्कलक्षणेषु'इति छापवादोऽण्। सत्यङ्कार, वलभीकार, बुद्धिकार, इत्यादि।
TBD.