TBD.
कुत्सने इत्येव। सौवीरेषु इति प्रकृतिविशेषणम्। वृद्धात् सौवीरगोत्रादपत्ये बहुलं ठक् प्रत्ययो भवति कुत्सने गम्यमने। भागवित्तेः भागवित्तिकः। तार्णबिन्दवस्य तार्णबिन्दविकः। पक्षे यथाप्राप्तं फक्, भागवित्तायनः। पक्षे तार्णबिन्दविः। अकशापः शुभ्रादिः, आकशापेयः। तस्य अपत्यम् आकशापेयिकः। पक्षे आकशापेयिः। भागपूर्वपदो वित्तिर् द्वितीयस् तार्णबिन्दवः। तृतीयस् त्वाकशापेयो गोत्राट् ठग् बहुलं ततः। वृद्धग्रहणं स्त्रीनिवृत्त्यर्थम्। सौवीरेषु इति किम्? औपगविर्जाल्मः। कुत्सने इत्येव, भागवित्तायनो माणवकः। बहुलग्रहणम् उपाधिवैचित्र्यार्थम्। गोत्रस्त्रियाः इत्यारभ्य चत्वारो योगास् तेषु प्रथमः कुत्सन एव, अन्त्यः सौवीरगोत्र एव, मध्यमौ द्वयोरपि। तदेतद् बहुलग्रहणाल् लभ्यते।
TBD.
–
1155 वृद्धाट्ठक्?सौ। पूर्वसूत्राद्गोत्रेत्येकदेशोऽनुवर्तते। सौवीरेष्विति प्रकृतिविशेषणं। तदाह–वृद्धादिति। `वृद्धिर्यस्याचामादि'रिति वृद्धिसंज्ञकादित्यर्थः। ठग्ग्रहणं णस्य अनुवृत्तिनिवृत्त्यर्थम्। भागवित्तेरिति। भगवित्तस्य सौवीरं गोत्रापत्यं–भागावित्तिः, तस्यापत्य युवेत्यर्थे ठकि इकादेसे भागवित्तिक' इति रूपमित्यर्थः। पक्षे फगिति। `यञिञोश्चे' त्यनेने'ति शेषः।
–
TBD.