Table of Contents

<<3-4-92 —- 3-4-94>>

3-4-93 एत ऐ

प्रथमावृत्तिः

TBD.

काशिका

लोट उत्तमस्य इति वर्तते। लोडुत्तमसम्भन्धिनः एकारस्य ऐकाराऽदेशो भवति। आमो ऽपवादः। करवैक् करवावहै, करवामहै। इह कस्मान् न भवति, पचावेदम्, यजावेदम्? बहिरङ्गलक्षणत्वाद् गुणस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

521 लोडुत्तमस्य एत ऐ स्यात्. एधै. एधावहै. एधामहै.. आटश्च. ऐधत. ऐधेताम्. ऐधन्त. ऐधथाः. ऐधेथाम्. ऐधध्वम्. ऐधे. ऐधावहि. ऐधामहि..

बालमनोरमा

99 उत्तमपुरुषैकवचने इटि टेरेत्वे शपि `आमेत' इत्येकारस्य आमि प्राप्ते–एत ऐ। `ऐ' इति लुप्तप्रथमाकम्। `लोटो लङ्व'दित्यस्माल्लोट इति, `आडुत्तमस्य पिच्चे'त्यस्मादुत्तमस्येति चानुवर्तते। तदाह–लोडुत्तमस्येति। एधै इति। एध - ए इति स्थिते एकारस्य ऐत्वे,आडुत्तमस्येत्याडागमे, आटश्चेति वृद्धौ, वृद्धिरेचीति वृद्धिः। एधावहै एधामहै इति। वहिमह्रोष्टेरेत्वे शपि एकारस्य ऐत्वे आटि सवर्णदीर्घः। इति लोटप्रक्रिया।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.