Table of Contents

<<3-4-90 —- 3-4-92>>

3-4-91 सवाभ्याम् वामौ

प्रथमावृत्तिः

TBD.

काशिका

लोट इत्येव। सकारवकाराभ्याम् उत्तरस्य लोट्सम्बन्धिन एकारस्य यथासङ्ख्यं व अम् इत्येतावादेशौ भवतः। आमोऽपवादः। पचस्व। पचध्वम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

520 सवाभ्याम् परस्य लोडेतः क्रमाद्वामौ स्तः. एधस्व. एधेथाम्. एधध्वम्..

बालमनोरमा

98 सवाभ्यां। सश्च वश्च सवौ। ताभ्यामिति विग्रहः। अकारावुच्चारणार्थौ। वश्च अम्च वाऽमौ। `लोटो लङ्व'दित्यास्माल्लोट इति `आमेत'इत्यस्मादेत इति चानुवर्तते। तदाह– सकारेति। `आमेत'इत्यस्यापवादः। एधस्वेति। `एध-सेट इत्यत्र एकारस्य `व' इति वकाराकारसङ्घात आदेशः। एधेथामिति। आथाम्। टेरत्वं। शप्। `आतो ङि' इत्याकारस्य इय्। गुणः। यलोपः `आमेत' इत्याम्। एधध्वमिति। ध्वमि, शप्, टेरेत्वे कृते सवाभ्यामिति वकारात्परत्वादेकारस्य अम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्तिः सवाभ्‍यां परस्‍य लोडेतः क्रमाद् वाऽमौ स्‍तः । The एकारः of लोँट् which follows a सकारः or वकारः is replaced by “व” and “अम्” respectively.

उदाहरणम् – एधस्व (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
एध् + लोँट् 3-3-162 = एध् + ल् 1-3-2, 1-3-3
= एध् + थास् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-105, थास् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + से 3-4-80, 1-1-55, से also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= एध् + स्व 3-4-91 = एध् + शप् + स्व 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + स्व 1-3-3, 1-3-8, 1-3-9 = एधस्व

एधध्वम् (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।
एध् + लोँट् 3-3-162 = एध् + ल् 1-3-2, 1-3-3, 1-3-9
= एध् + ध्वम् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-105, 1-3-4, ध्वम् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + ध्वे 3-4-79 = एध् + ध्वम् 3-4-91
= एध् + शप् + ध्वम् 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + ध्वम् 1-3-3, 1-3-8 = एधध्वम्