Table of Contents

<<3-4-88 —- 3-4-90>>

3-4-89 मेर् निः

प्रथमावृत्तिः

TBD.

काशिका

लोटः इत्येव। लोडादेशस्य मेः निः आदेशो भवति। उत्वलोपयोरपवादः। पचानि। पठानि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

419 लोटो मेर्निः स्यात्..

बालमनोरमा

52 लोटो मिपि शपि गुणेऽवादेशे मिपस्तस्थस्थमिपामित्यमादेशे प्राप्ते– मेर्निः। `लोटो लङ्व'दित्यतो इत्यनुवर्तते। तदाह–लोटो मेरिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

304) मेर्निः 3-4-89

वृत्तिः लोटो मेर्निः स्‍यात् । The affix “मि” of लोँट् is substituted by “नि”।

उदाहरणम् – भवानि (√भू-धातुः, लोँट्, उत्तम-पुरुषः, एकवचनम्)
भू + लोँट् 3-3-162 = भू + ल् 1-3-2, 1-3-3
= भू + मिप् 3-4-78, 3-4-101, 1-4-101, 1-4-102, 1-4-107, मिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + मि 1-3-3 = भू + नि 3-4-89, नि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56

Continued below