Table of Contents

<<3-4-89 —- 3-4-91>>

3-4-90 आम् एतः

प्रथमावृत्तिः

TBD.

काशिका

लोटः इत्येव। लोट् सम्बधिनः एकारस्य आम् इत्ययम् आदेशो भवति। पचताम्, पचेताम्, पचन्ताम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

519 लोट एकारस्याम् स्यात्. एधताम्. एधेताम्. एधन्ताम्..

बालमनोरमा

97 आमेतः। आम्-एत इति च्छेदः। `लोटो लङ्व'दित्यतो लोट इत्यनुवर्तते। तदाह–लोट एकारस्येति। लोडादेशावयवस्य एकारस्येत्यर्थः। एधतामिति। लोटस्तादेशे टेरेत्वे आमादेशे शपि रूपम्। एधेतामिति। आताम्। टेरेत्वं। शप्। `सार्वधातुकमपि'दिति ङित्त्वादातो ङित इत्याकारस्य इय्। गुणः। यकारलोपः। `आमेत' इत्येकारस्य आम्। एधन्तामिति। झस्य टेरेत्वे शपि झकारस्य अन्तादेशे एकारस्य आम्।अथ लोटस्थासः सेभावे शपि एध–से इति स्थिते।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्तिः लोँट एकारस्याम् स्यात् । The एकार: of लोँट् is replaced by “आम्”।

उदाहरणम् – एधताम् (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

एध् + लोँट् 3-3-162 = एध् + ल् 1-3-2, 1-3-3

= एध् + त 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113

= एध् + ते 3-4-79 = एध् + ताम् 3-4-90 = एध् + शप् + ताम् 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113

= एध् + अ + ताम् 1-3-3, 1-3-8 = एधताम्