Table of Contents

<<7-1-8 —- 7-1-10>>

7-1-9 अतो भिस ऐस्

प्रथमावृत्तिः

TBD.

काशिका

अकारान्तादङ्गादुत्तरस्य भिसः ऐसित्ययम् आदेशो भवति। वृक्षैः। प्लक्षैः। अतिजरसैः। जरामतिक्रान्तैः इति विगृह्य समासे कृते ह्रस्वत्वे च भिस ऐसादेशो भवति। एकदेशविकृतमनन्यवद् भवति इति जरशब्दस्य जरसादेशः। सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषा इयम् अनित्या, कष्टाय क्रमणे 3-1-14 इति निर्देशात्। अतः इति किम्? अग्निभिः। वायुभिः। तपरकरणं किम्? खट्वाभिः। मालाभिः। एत्वम् भिसि परत्वाच् चेदत ऐस् क्व भविष्यति। कृते ऽप्येत्वे भौतपूर्व्यादैस् तु नित्यस् तथा सति। अतः इत्यधिकारो जसः शी इति यावत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

142 अनेकाल्शित्सर्वस्य. रामैर्ः..

बालमनोरमा

201 अतो भिस ऐस्। `अत' इति पञ्चमी। `अङ्गस्ये'त्यधिकृतंपञ्चम्या विपरिणम्यते। `अत' इति च तस्य विशेषणम्। विशेषणत्वाच्च त्तदन्तविधिः। तदाह–अकारान्तादिति। रुत्वविसर्गौ सिद्धवत्कृत्याह–रामैरिति। यद्यपि एसि विहितेऽपि वृद्धौ रामैरित्यादि सिद्धम्। नच अतो गुण इति पररूपं शङ्क्यम्, एकारोच्चारणसामथ्र्यादेवतदसम्भवात्। अन्यथा इसमेव विदध्यात्। तथापि एदैतोर्द्विमात्रत्वाऽविसेषात्प्रक्रियालाघवाच्च ऐसो विधिः। अलोऽन्त्यस्येत्यन्तादेशमाशङ्क्याह-अनेकाल्त्वादिति। अथ चतुर्थीविभक्तिः। तत्र ङे इति ङकारस्य लशक्केतीत्संज्ञायां लोपः। तदुच्चारणं तु घेर्ङितीत्याद्यर्थम्। राम-ए इति स्थिते।

तत्त्वबोधिनी

169 अतो भिस ऐस्। ननु `ए'सित्येवास्तु। न च `अतो गुणे' इति पररूपापत्तिः। एकारोच्चारणवैयथ्र्यापत्तेः। अन्यता इसमेव विदध्यादिति चेत्सत्यम्। एदैतोर्द्विमात्रत्वाऽविशेषेण गौरवाऽभावात्। `बहुलं छन्दसि' इत्यत्र `अनतोऽपि भवति नद्यै'रिति काशिकोदाह्मतप्रयोगस्य ऐस्करणं विना अनिर्वाहाच्च। केचिदैस्करणं निर्जरसैरित्यैकारश्रवणार्थमिति व्याचख्युः, तच्चिन्त्यम्। संनिपातपरिभाषया जरसादेशाऽप्रवृत्तेर्निर्जरैरित्येव भाष्ये सिद्धान्तितत्वात्।

Satishji's सूत्र-सूचिः

61) अतो भिस ऐस् 7-1-9

वृत्ति: अदन्ताद् अङ्गात् परस्य भिस ऐस् स्यात् । Following a अङ्गम् ending in a अकार:, the affix “भिस्” is replaced by “ऐस्”।

गीतासु उदाहरणम् – श्लोकः bg1-43

दोष + भिस् = दोष + ऐस् = दोषै: 6-1-88