Table of Contents

<<7-2-109 —- 7-2-111>>

7-2-110 यः सौ

प्रथमावृत्तिः

TBD.

काशिका

इदमो दकारस्य यकारादेशो भवति सौ परतः। इयम्। उत्तरसूत्रे पुंसि इति वचनात्स्त्रियामयं यकारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

363 इदमो दस्य यः इयम्. त्यदाद्यत्वम्. पररूपत्वम्. टाप्. दश्चेति मः. इमे. इमाः. इमाम्. अनया. हलि लोपः. आभ्याम्. आभिः. अस्यै. अस्याः. अनयोः. आसाम्. अस्याम्. आसु.. त्यदाद्यत्वम्. टाप्. स्या. त्ये. त्याः.. एवं तद्, एतद्.. वाक्, वाग्. वाचौ. वाग्भ्याम्. वाक्षु.. अप्शब्दो नित्यं बहुवचनान्तः. अप्तृन्निति दीर्घः. आपः. अपः..

बालमनोरमा

अथ इदम्शब्दस्य स्त्रीत्वे विशेषमाह-यः सौ। `इदमो मः' इत्यत `इदम' इत्यनुवर्तते, `दश्चे'त्यतो `द' इति च षष्ठ\उfffद्न्तमनुवर्तते। तदाह–इदमो दस्येति। पुंसि तु नेदं प्रवर्तते, `इदोऽय्पुंसी'ति विशिष्य विधेः। नापि क्लीबे, तस्य सोर्लुका लुप्तत्वात्। ततश्च परिशेषात्स्तिरायमेवेदम्। इयमिति। इदम् स् इति स्थिते, दकारस्य यत्वे, इयम् स् इति स्थिते, त्यदाद्यत्वं बाधित्वा `इदमो मः' इति मकारस्य मकारे कृते, हल्ङ्यादिना सुलोप इति भावः। इदम्-औ इति स्थिते प्रक्रियां दर्शयति– त्यदाद्यत्वमिति। त्यदाद्यत्वे सति पररूपे, अदन्तत्वाट्टापि `दश्चे'ति दकारस्य मत्वे, इमा-औ इति स्थिते, `औङ आपः' इति शीभावे, आद्गुणे `इमे' इति रूपम्। इमा इति। जसि त्यदाद्यत्वं, पररूपम्, टाप्, `दश्चे'ति मः, पूर्वसवर्णदीर्घ इति भावः। अत्र विभक्तौ सत्यां त्यदाद्यत्वं, पररूपं, टाप् च सर्वत्र भवन्तीति बोध्यम्। `इमाः' इत्यत्र इमा-अस् इति स्थिते पूर्वसवर्णदीर्घः। `जसः शी'ति तु न, टापि कृतेऽदन्तात्परत्वाऽभावात्। इमामिति। अत्पररूपटाब्मत्वेषु कृतेषु `अमि पूर्वः' इति भावः। इमे इति। औटि औवत्। इमा इति। अत्वपररूपटाब्मत्वेषु पूर्वसवर्णदीर्घः। स्त्रीत्वान्नत्वाऽभाव इति भावः। अनयेति। इदम्-आ इति स्थिते, अत्वं, पररूपम्, टाप्, `अनाप्यकः' इति इदित्यस्य अनादेशः। अन्-आ इति स्थिते, `आङि चापः' इत्येत्त्वे, अयादेश इति भावः। टाप्रभृत्यजादौ सर्वत्र अनादेश इति बोध्यम्। हलि लोप इति। भ्यामादौ हलि इदित्यस्य लोप इत्यर्थः। आभ्यामिति। इदम्-भ्यामिति स्थिते इदो लोपे, अत्वे, पररूपे, टापि च रूपमिति भावः। आभिरित्यप्येवम्। अस्यै इति। इदम् ए इति स्थिते, अत्वपररूपटाप्सु, स्याडागमे, ह्यस्वत्वे, इदो लोप इति भावः। `अस्याः' इत्यप्येवम्। अनयोरिति। इदम् ओस् इति स्थिते, इदम इदोऽनादेशे, अत्वपररूपटाप्सु, `आहि चापः' इत्येत्वे अयादेश इति भावः। आसामिति। इदम आम् इति स्थिते, अतद्वपररूपटाप्सु, सुटि, इदो लोप इति भावः। अस्यामिति। इदम् इ इति स्थिते, अत्वपररूपटाप्सु, ङेरामि, स्याडागमे, ह्यस्वत्वे, इदो लोप इति भावः। आस्विति। इदम्-सु इति स्थिते, अत्वपररूपटाप्सु, ङेरामि, स्याडागमे, ह्यस्वत्वे, इदो लोप इति भावः। आस्विति। इदम्-सु इति स्थिते, अत्वपररूपटाप्सु, अत्वपररूपटाप्सु, इदो लोप इति भावः। अन्वादेशे त्विति। `द्वितीयाटौस्स्वेनः' इत्येन#आदेशे, टापि रमावद्रूपाणि इति भावः। इति मान्ताः। अथ जान्ताः। रुआज्शब्दं व्युत्पादयति– ऋत्विगिति। `सृज विसर्गे' अस्मात्क्विन्, ऋकारात्परोऽमागमः, मकार इत्, ऋकारस्य यण् रेफः। रुआज्शब्दः स्त्रीलिङ्गः। `माल्यं मालारुआजौ मू\उfffद्ध्न, इत्यमरः। रुआक्- रुआगिति। क्विन्प्रत्ययस्य कुः' इति कुत्वं, जश्त्वचर्त्त्वे इति भावः। इति जान्ताः। अथ दान्ताः। त्यद्शब्दस्य प्रक्रियां दर्शयति–त्यदाद्यत्वमिति। विभक्तौ, अत्वे, पररूपे, टापि `त्या' इति रूपम्। सर्वत्र ततः सर्वावद्रूपाणि। सौ तु `तदोः सः सौ' इति तकारस्य सकार इति विशेषः। एवमिति। तद् यद् एतद् एतेभ्यो विभक्तौ अत्वपररूपटाप्सु सर्वावद्रूपाणि। तच्छब्दस्य तु तकारस्य सत्वम्। एतच्छब्दस्य तु तकारस्य सत्वे `आदेशप्रत्यययोः' इति षत्वमिति विशेषः। इति दान्ताः।\र्\नथ चान्ताः। वागिति। वचेः `क्विब्वची'त्यादिना क्विप्स दीर्घश्च, `वचिस्वपी'ति सम्प्रसारणाऽभावश्च। वाचिति रूपम्। `सुलोपः, चोः कुः, जश्त्वचर्त्वे इति भावः। इति चान्ताः। अथ पान्ताः। अप्शब्द इति। `अप्सुमनस्समासिकतावर्षाणां बहुत्वं चे'ति स्त्र्यधिकारे लिङ्गानुशासनसूत्रान्नित्यं बहुवचनान्तत्वं स्त्रीत्वं चेत्यर्थः। दीर्घ इति। `जसी'ति शेषः। अप इति। `अप्तृन्' इत्यत्र `सर्वनामस्थाने चासम्बुद्धौ' इत्यनुवृत्तेः शसि न दीर्घ इति भावः।

तत्त्वबोधिनी

393 यः सौ। यत्वमिदं स्त्रियामेव, परिशेषात्। इदोऽय्पुंसी'ति पुंस्यय्वचनात्, क्लीवे सोर्लुका लुप्तत्वाच्च। एवमिति। सा। ते। ताः। याः ये। याः। एषा। एते। एताः। इत्यादीत्यर्थः। वागिति। वचेः `क्विब्वची'त्यादीना क्वीब्दीर्घोऽसंपर्सारणं च। `चोः कुः'।

Satishji's सूत्र-सूचिः

259) यः सौ 7-2-110

वृत्ति: इदमो दकारस्य यकारादेशो भवति सौ परतः। There is a substitution of the यकार: in place of the दकार: of “इदम्” when the सुँ-प्रत्यय: follows.
Note: This rule only applies in the feminine because in the masculine the specific rule 7-2-111 applies following which there is no दकार: left. In the neuter the सुँ-प्रत्यय: takes the लुक् elision by 7-1-23 following which no अङ्ग-कार्यम् can be done as per 1-1-63.

गीतासु उदाहरणम् – श्लोकः bg7-5

इदम् + सुँ 4-1-2 = इदम् + सुँ 7-2-108 (Note: 7-2-108 prevents 7-2-102 from applying) = इयम् + सुँ 7-2-110 = इयम् 1-3-2, 6-1-68