Table of Contents

<<1-1-62 —- 1-1-64>>

1-1-63 न लुमता ऽङ्गस्य

प्रथमावृत्तिः

न(-), लुमता(3/1), अङ्गस्य(6/1)|
हिन्दी – [लुमता] लुक्-श्लु और लुप् इन शब्दों के द्वारा जहां प्रत्यय का अदर्शन किया गया हो, उसके परे रहते जो [अङ्गस्य] अङ्ग, उस अङ्ग को जो प्रत्यय-लक्षण कार्य प्राप्त हों, वे [न] नहीं होते। पूर्व सूत्र से प्रत्ययलक्षण कार्य प्राप्त था, सो नहीं हुआ।

काशिका

पूर्वेण अतिप्रसक्तं प्रत्ययलक्षणम् इति विशेषे प्रतिषेधः उच्यते। लुमता शब्देन लुप्ते प्रत्यये यदङ्गं, तस्य प्रत्ययलक्षणं कार्यं न भवति। गर्गाः। मृष्टः। जुहुतः। यञ्शपोर् लुमता लुप्तयोरङ्गस्य वृद्धिगुणौ न भवतः। लुमता इति किम्? कार्यते। हार्यते। अङ्गस्य इति किम्? पञ्च। सप्त पयः। साम।

Ashtadhyayi (C.S.Vasu)

Of the base (anga), whose affix has been elided by the use of any of the three words containing लु, the operations dependent on it do not take place, regarding such a base.

लघु

191 लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्. कति 2. कतिभिः. कतिभ्यः 2. कतीनाम्. कतिषु. युष्मदस्मत्षट्संज्ञकास्त्रिषु सरूपाः.. त्रिशब्दो नित्यं बहुवचनान्तः. त्रयः. त्रीन्. त्रिभिः. त्रिभ्यः 2..

सिद्धान्तकौमुदी 263 लुक् श्लु लुप् एते लुमन्तः । लुमता शब्देन लुप्ते तन्निमित्तामङ्गकार्यं न स्यात् । कति । कति । कतिभिः । कतिभ्यः । कतीनाम् । कतिषु । अस्मद्युष्मद्षट्संज्ञकास्त्रिषु सरूपाः । त्रिशब्दो नित्यं बहुवचनानतः । त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः । त्रिभ्यः ॥

बालमनोरमा

261 न लुमताङ्गस्य। `प्रत्ययलोपे प्रत्ययलक्षण'मित्यनुवर्तते। `लु'इत्येकदेशोऽस्यास्तीति लुमान्=लुक्शब्दः श्लुशब्दो लुप्शब्दश्च। तेन शब्देन प्रत्ययलोपे विहिते सति प्रत्ययनिमित्तकमङ्गकार्यं न स्यादित्यर्थः। तदाह– लुक्श्लु इत्यादिना। अङ्गस्येत्यनुक्तौ पञ्च सप्तेत्यादौ `सुप्तिङन्त'मिति पदसंज्ञा न स्यात्, जश्शसोर्लुका लुप्तत्वात्। ततश्च `न लोपः प्रातिपदिकान्तस्ये'ति नलोपो न स्यात्। अतोऽङ्गस्येत्युक्तम्। एवञ्च जसि लुका लुप्ते `प्रत्ययलक्षणाऽभावाज्जसि चे'ति गुणो न भवतीत्यभिप्रेत्योदाहरति–कतीति। प्रसङ्गादाह–अस्मदिति। त्रिष्विति। पुंस्त्रीनपुंसकेष्वित्यर्थः। सरूपा इति। समानानि रूपाणि येषामिति विग्रहः। लिङ्गविशेषबोधकटाबाद्यभावादिति भावः। नचैवं सति `अलिह्गे युष्मदस्मदी'इति `साम आक'मिति सूत्रस्थभाष्यविरोध इति वाच्यं, पदान्तरसंनिधानं विना लिङ्गविशेषो युष्मदस्मच्छब्दाभ्यां न प्रतीयते इति हि तदर्थः। अत एव `न षट्स्वस्रादिभ्यः' इति पञ्चनादिषट्संज्ञकेभ्यष्टाब्ङीब्निषेधः सङ्गच्छते। अन्यथा स्त्रीत्वाऽभावादेव तदभावे सिद्धे किं तेन ?। अत एव च `ङे प्रथमयो'रिति सूत्रे भाष्ये युष्मानित्यत्र `तस्माच्छसो नः पुंसी'त्युपन्यासः सङ्गच्छते। अत एव च `नेतराच्छन्दसी'ति सूत्रे शिशीनुमादिभिर्युष्मदस्मदाद्यादेशानां विप्रतिषेधपरं वार्तिकं तद्भाष्ये च सङ्गच्छते। इति दिक्। त्रिशब्दे विशेषमाह–त्रिशब्द इति। त्रि-आमिति स्थिते नुटि दीर्घे णत्वे त्रीणामिति प्राप्ते (7-1-53)।

*

तत्त्वबोधिनी

221 न लुमताङ्गस्य। लुमतेति किम्? कार्यते हार्यते। अत्र `णेपनिटि'इति णिलोपेऽपि णिजपक्षे वृद्धिर्भवत्येव। अङ्गस्येति किम्?। `पञ्च'`सप्त'`कती'त्यादौ प्रत्ययान्तकार्यं `सुप्तिङन्ताम्—'इति पदसंज्ञा यथा स्यात्। अस्मदिति। प्राचा त्वव्ययास्मदिति पठितं,तत्र अव्ययेत्युपेक्षितम्, `सदृशं त्रिषु लिङ्गेषु'इति श्रुतोर्लिङ्गत्रयाद्यभावपरत्वेन अव्ययानामलिङ्गत्वात्। अव्ययीभावस्य तु वचनात्क्लीबत्वेऽपि लिङ्गान्तराऽभावाच्च। त्रिशब्द इति। `तरतेङ्ग्रिः'। डित्त्वाट्टिलोपः।

Satishji's सूत्र-सूचिः

105) न लुमताङ्गस्य 1-1-63

वृत्ति: लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् । When an affix takes the “लुक्”, “श्लु” or “लुप्” elision, the operations that were ordained on the अङ्गम् by the affix, shall not be carried out.

Continuing from above example: कति + जस् = कति 7-1-22 – The गुणः replacement is stopped because of 1-1-63