Table of Contents

<<7-1-22 —- 7-1-24>>

7-1-23 स्वमोर् नपुंसकात्

प्रथमावृत्तिः

स्वमोः 6/2, नपुंसकात् ५/१। अनु. - लुक्, अङ्गस्य
हिन्दी - [ नपुंसकात् ] नपुंसकलिङ्गवाले अङ्ग से उत्तर [स्वमोः] सु और अम् (= द्वितीया एकवचन) का लुक् होता है।

काशिका

सु अम् इत्येतयोः नपुंसकादुत्तरयोः लुग् भवति। दधि तिष्ठति। दधि पश्य। मधु तिष्ठति। मधु पश्य। त्रपु। जतु। तद्ब्राह्मणकुलम् इत्यत्र लुका त्यदाद्यत्वं 7-2-102 बाध्यते, पूर्वविप्रतिषेधेन नित्यत्वाद् वा। लुको हि निमित्तम् 'अतो ऽम्' 7-1-24 इति लक्षणान्तरेण विहन्यते, न पुनस्त्यदाद्यत्वेन एव। 'यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यं भवति' (परि. 47)।

Ashtadhyayi (C.S.Vasu)

The nominative and accusative singular case endings सु and अम् are elided after a Neutral stem.

लघु

245 लुक् स्यात्. वारि..

बालमनोरमा

317 अथ वारिशब्दप्रक्रियां दर्शियितुमाह–स्वमोर्नपुंसकात्। `षड्भ्यो लुक्' इत्यतो लुगित्यनुवर्तते। इत्याह–क्लीवादित्यादिना। वारीति। सोरमश्च लुकि रूपम्। नच `आदेः परस्ये'त्यमोऽकारस्यैव लुक् स्यान्न तु मकारस्यापीति शङ्क्यं, प्रत्ययस्य लोप एव हि लुगित्युच्यते। अम् इति समुदाय एवेह प्रत्ययो नतु तदेकदेशभूतमकारमात्रम्। अतो लुगमः सर्वादेश एव भवति।

तत्त्वबोधिनी

279 स्वमोर्नपुंसकात्।अयं लुक् पूर्वविप्रतिषेधेन त्यदाद्यत्वस्य, किमः कादेशस्य च बाधकः। परत्वाद्धि त्यदाद्यत्वे `तदोः–'इति सोरम्भावे च `सं कुल'मिति स्यात्। इष्यते तु `तत्कुल'मिति।

Satishji's सूत्र-सूचिः

156) स्वमोर्नपुंसकात् 7-1-23

वृत्ति: लुक् स्यात्। The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् take the लुक् elision.

उदाहरणम् – वारि + सुँ = वारि 7-1-23

वारि + अम् = वारि 7-1-23