Table of Contents

<<7-2-108 —- 7-2-110>>

7-2-109 दश् च

प्रथमावृत्तिः

TBD.

काशिका

इदमो दकारस्य स्थाने मकारादेशो भवति विभक्तौ परतः। इमौ, इमे। इमम्, इमौ, इमान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

277 इदमो दस्य मः स्याद्विभक्तौ. इमौ. इमे. त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः..

बालमनोरमा

दश्च। `इदमो मः' इत्यनुवर्तते। `द' इति षष्ठी। इदमो दकारस्येति। लभ्यते। `अष्टन आ विभक्तौ' इत्यतोऽतिव्यवहितमपि विभक्तावित्येतन्मण्डूकप्लुत्याऽनुवर्तते। `तदोः सः सौ' इत्यतः साविति तु संनिहितमपि नानुवर्तते, सौ इदमो दस्याऽभावात्, `यः सौ' इत्युत्तरसूत्रे सौग्रहणाच्च। तदाह-इदमो दस्येत्यादिना। तथाच इम-औ इति स्थिते रामवद्रूपाणीत्याह–इमावित्यादि। त्यदादेः संबोधनं नास्तीति। प्रचुरप्रयोगाऽदर्शनादिति भावः। नन्वेवं सति `तदोः सः सो' इति सूत्रे `हे स' इति भाष्यविरोध इत्यत आह-उत्सर्ग इति प्रायिकमित्यर्थः।

तत्त्वबोधिनी

305 उत्सर्ग इति। तेन `तदोः सः सा'बिति सूत्रे `अनन्त्ययोरिति किं हे स'इति भाष्यं, `भो अच्युत'`भवन्नच्युते'त्यादि प्रयोदाश्च न विरुध्यन्त इति भावः।

Satishji's सूत्र-सूचिः

186) दश्च 7-2-109

वृत्ति: इदमो दस्य मः स्याद् विभक्तौ। The दकारः of इदम् gets मकारः as a replacement when a विभक्तिः affix follows.

गीतासु उदाहरणम् – श्लोकः bg18-17

इदम् + शस् 4-1-2 = इदम् + अस् 1-3-8, 1-3-4 = इद अ + अस् 7-2-102 = इद + अस् 6-1-97 = इम + अस् 7-2-109 = इमास् 6-1-102 = इमान् 6-1-103