TBD.
इदमः सौ परतः मकारो ऽन्तादेशो भवति। इयम्। अयम्। इदमो मकारस्य मकारवचनं त्यदाद्यत्वबाधनार्थम्।
TBD.
274 सौ. त्यदाद्यत्वापवादः..
अथ इदंशब्दे विशेषमाह–इदमो मः। साविति। `तदोः सः सौ' इत्यतस्तदनुवृत्तेरिति भावः। `अलोऽन्त्यस्ये'त्यन्त्यस्य मस्य मः। ननु मस्य मविधिव्र्यर्थ इत्यत आह– त्यदाद्यत्वापवाद इति।
303 इदमो मः। `इन्दे कमिर्नलोपश्च'। इदम्। `तदोः सः सौ'इत्यतोऽनुवर्तनादाह—सौ पर इति।