TBD.
अकः इति दीर्घः इति वर्तते। प्रथमाशब्दो विभक्तिविशेषे रूढः, तत्साहचर्याद् द्वितीया ऽपि प्रथमा इति उक्ता। तस्यां प्रथमायां द्वितीयायां च विभक्तौ अचि अकः पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घः एकादेशो भवति। अग्नी। वायू। वृक्षाः। प्लक्षाः। वृक्षान्। प्लक्षान्। अतो गुणे 6-1-97 इति यदकारे पररूपं ततकः सवर्णे दीर्घत्वम् एव बाधते, न तु पूर्वसवर्नदीर्घत्वम्, पुरस्तादपवाद अनन्तरान् विधीन् बाधन्ते न उत्तरातिति। अचि इत्येव, वृक्षः। प्लक्षः। अकः इत्येव, नावौ। पूर्वसवर्नग्रहणं किम्? अग्नी इत्यत्र पक्षे परसवर्णो मा भूत्। दीर्घग्रहणं किम्? त्रिमात्रे स्थानिनि त्रिमात्रादेशनिवृत्त्यर्थम्।
TBD.
126 अकः प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेशः स्यात्. इति प्राप्ते..
163 शिव उ अच्र्य इति स्थिते-प्रथमयोः। `अकः सवर्णे' इत्यतोऽक इति, इको यणचीत्यतोऽचीति चानुवर्तते। `एकः पूर्वपरयो'रित्यधिकृतम्। प्रथमयोरित्यवयवषष्ठी। प्रथमाद्वितीये सुब्विभक्ती विवक्षिते। तदाह–अकः प्रथमेत्यादिना। इति प्राप्त इति। शिव–उ इत्यत्र अकारस्य उकारस्य च स्थाने पूर्वसवर्णे आकारे प्राप्त इत्यर्थः।
134 प्रथमयोः। अत्र प्रथमाशब्दः प्रथमाद्वितीययोः समुदाये गौणः, द्विवचनं तु समुदाय्यपेक्षया। `इको यणची'त्यतोऽचीति `अकः सवर्णे दीर्घः' इत्यतो'ऽको दीर्घ'इति `एकः पूर्वपरयो'रिति सूत्रं चानुवर्तते इत्याशयेन व्याचष्टे–अकः प्रथमाद्वितीययोरचीत्यादिना। अचि किम् ?। रामः। अकः किम् ? गावौ, नावौ। प्रथमयोः किम् ?। वृक्षे, प्लक्षे। यद्यपीदं `नादिची'त्यनेनैव सिध्यति, तथापि `हरी' इत्यत्रेव `हर्यो'रित्यत्रापि पूर्वसवर्णदीर्घः स्यत्। तद्वारणाय `प्रथमयो'रित्युक्तमिति दिक्। पूर्वग्र्रहणं किम् ?। `अग्नी'इत्यत्र पक्षे परसवर्णो मा भूत्। दीर्घग्रहणं किम् ?। त्रिमात्रे स्थानिनि त्रिमात्रो मा भूत्। `आद्गुण' इति। अपवादे निषिद्धे पुनरुत्सर्गस्य स्थिति'रिति न्यायादिति भावः। अत्र `भिद्योध्द्यौ नदे' `तौ स'दित्यादि लिङ्गम्।
46) प्रथमयो: पूर्वसवर्ण: 6-1-102
वृत्ति: अक: प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेश: स्यात् । When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)
गीतासु उदाहरणम् – श्लोकः bg1-14
स्थित + औ masculine nominative dual. Here the present rule would have applied to make a single substitute आ in place of (the ending) अ (of स्थित) and औ- but the next rule stops this operation.