Table of Contents

<<6-1-102 —- 6-1-104>>

6-1-103 तस्माच् छसो नः पुंसि

प्रथमावृत्तिः

TBD.

काशिका

तस्मात् पूर्वसवर्णदीर्घातुत्तरस्य शसो ऽवयवस्य सकारस्य पुंसि नकारादेशो भवति। वृक्षान्। अग्नीन्। वायून्। कर्तृ\उ0304न्। हर्तृ\उ0304न्। षण्डकान्। षण्ढकान्। षण्ढकान्। स्थूरान्। अररकान् पश्य। सर्व एते पुंलिङ्गविशिष्टं स्वार्थं प्रतिपादयन्ति। इह तु चञ्चेव चञ्चा, लुम्मनुष्ये इति कनो लुपि कृते लुपि युक्तवद् व्यक्तिवचने 1-2-5 इति पुंसो ऽपि स्त्रीलिङ्गत, तेन नत्वं न भवति, चञ्चाः पश्य, वध्रिकाः पश्य इति। तस्मातिति किम्? एतांश्चरतो गाः पश्य। शासः इति किम्। वृक्षाः। प्लक्षाः। पुंसि इति किम्? धेनूः। बह्वीः। कुमरीः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

137 पूर्वसवर्णदीर्घात्परो यः शसः सस्तस्य नः स्यात्पुंसि..

बालमनोरमा

195 तस्माच्छसोनः। `प्रथमयोः पूर्वसवर्ण' इति पूर्वसूत्रकृतः संनिहितः पूर्वसवर्णदीर्घस्तस्मादित्यनेन परामृश्यते। दिक्?शब्दयोगे पञ्चम्येषा। तेन `परस्ये'त्यध्याहार्यम्। `शस' इत्यवयवषष्ठी। स चावयवः परत्वेन विशेष्यते। स चावयवोऽर्थात् सकार एव, अन्यस्याऽसंभवात्। तदाह–[कृत]पूर्वेत्यादिना। कृतपूर्वेति किम् ?। दीर्घात्परस्य शसवयवस्येत्युक्तौ, `एतान् गाः पश्ये'त्यत्र गोशब्दात् शसःसस्यापि नत्वप्रसङ्गः। अतः [कृत] पूर्वसवर्णदीर्घादिति। `गा' इत्यत्र च औतोम्शसोरित्याकार एकादेशः, न तु पूर्व सवर्णदीर्घ इति ततः परस्य न नत्वम्। शसः किम् ?। रामाः प्रकृते च नत्वे रामानिति रूपम्।

तत्त्वबोधिनी

163 तस्माच्छसो। `त'च्छब्देन संनिहितः पूर्वसवर्णदीर्घः परामृश्यते। दीर्घमात्रपरामर्शे तु `एतान् गाः पश्ये'त्यत्रापि नत्वप्रसङ्गात्। `शस'इत्यवयवषष्ठी, स चावयवः परत्वेन विशेष्यते-पूर्वसवर्णदीर्घात्परस्य शसोऽवयवस्येति, तदेतदाह-परो यः शसः सकार इति। `परो यः श'सिति न व्याख्यातम्। कृते पूर्वसवर्णदीर्घे ततः परस्य शसोऽसंभवात्।

Satishji's सूत्र-सूचिः

56) तस्माच्छसो न: पुंसि 6-1-103

वृत्ति: पूर्वसवर्णदीर्घात् परो य: शस: सस्तस्य न: स्यात् पुंसि । In the masculine gender, when the letter “स्” of the affix “शस्” follows a vowel which has been elongated by 6-1-102 then is replaced by the letter “न्”।

गीतासु उदाहरणम् – श्लोकः bg1-26

आचार्य + शस् = आचार्य + अस् 1-3-8 = आचार्यास् 6-1-102 = आचार्यान्