Table of Contents

<<7-1-97 —- 7-1-99>>

7-1-98 चतुरनडुहोरामुदात्तः

प्रथमावृत्तिः

TBD.

काशिका

चतुरनडुः इयेतयोः सर्वनामस्थाने परतः आम् आगमो भवति, स चोदात्तः। चत्वारः। अनड्वान्, अनड्वाहौ, अनड्वाहः। अनड्वाहम्। तदन्तविधिरत्र इष्यते। प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारः। प्रियानड्वान्, प्रियान्ड्वाहौ, प्रियानड्वाहः। अनडुहः स्त्रियाम् वेति वक्तव्यम्। अनडुही, अनड्वाही। गौरादिपाठात् सिद्धम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

260 अनयोराम् स्यात्सर्वनामस्थाने परे..

बालमनोरमा

अनडुह् स् इति स्थिते। चतुरनडुहोः। अनयोरिति। चतुरनडुहोरित्यर्थः। सर्वनामस्थान इति। `इतोऽत्सर्वनामस्थाने' इत्यतः स् इति स्थिते-।

तत्त्वबोधिनी

292 चतुरडुहोः। `इतोत्सर्वनामस्थाने'इत्यतोऽनुवर्तनादाह–सर्वनामस्थान इति। विशेषविहितेन यासुटा सामान्यविहितः सीयुडिव नुमा आम्बाध्यतामित्याशङ्कां निराकरोति—अवर्णात्परोऽयमित्यादिना। उपजीव्योपजीकयोर्विरोधाऽभावेन बाध्यबाधकभावो नेति भाव।

Satishji's सूत्र-सूचिः

173) चतुरनडुहोरामुदात्तः 7-1-98

वृत्ति: “चतुर्” “अनडुह्” इत्येतयोः सर्वनामस्थाने परत आमागमो भवति, स चोदात्तः। When a सर्वनामस्थानम् affix follows, “चतुर्” and “अनडुह्” get the “आम्” augment. (This “आम्” augment has a उदात्तः accent.)

उदाहरणम् – अनडुह् + सुँ = अनडुआह् + स् 1-3-2, 7-1-98, 1-3-3, 1-1-47 = अनड्वाह् + स् 6-1-77 – Example continued below.

चतुर् + जस् = चतुआर् + अस् 1-3-7, 1-3-4, 7-1-98, 1-3-3, 1-1-47 = चत्वारः 6-1-77, 8-2-66, 8-3-15