Table of Contents

<<7-1-96 —- 7-1-98>>

7-1-97 विभाषा तृतीयादिष्वचि

प्रथमावृत्तिः

TBD.

काशिका

तृतीयादिषु विभक्तिषु अजादिषु क्रोष्टुर्विभाषा तृज्वद् भवति। क्रोष्ट्री, क्रोष्टुना। क्रोष्ट्रे क्रोष्टवे। क्रोष्टुः, क्रोष्टोः। क्रोष्टरि, क्रोष्टौ। क्रोष्ट्रोः, क्रोष्ट्वोः। तृतीयादिषु इति किम्? क्रोष्टून्। अचि इति किम्? क्रोष्टुभ्याम्। क्रोष्टुभिः। तृज्वद्भावात् पूर्वविप्रतिषेधेन नुम्नुटौ भवतः। प्रियक्रोष्टुने अरण्याय। हतक्रोष्टु वृषलकुलाय। नुट् क्रोष्टूनाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

208 अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत्. क्रोष्ट्रा. क्रोष्ट्रे..

बालमनोरमा

276 विभाषा तृतीया। `तृज्वत्क्रोष्टु'रित्यनुवर्तते। `अची'ति तृतीयादिविभक्तिविशेषणं, तदादिविधिस्तदाह–अजादिष्विति। क्रोष्ट्रेति। तृज्वद्भावे क्रोष्टृ-आ इति स्थिते ऋकारस्य यण् रेफः। एवं क्रोष्ट्रे इति। तृज्वद्भावाऽभावपक्षे-क्रोष्टुना क्रोष्टवे-शम्भुवत्।

तत्त्वबोधिनी

238 विभाषा तृ। `यस्मिन्विधिस्तदादौ'इति तदादिविधिरित्याह–अजादिष्विति।

Satishji's सूत्र-सूचिः

TBD.