Table of Contents

<<7-1-93 —- 7-1-95>>

7-1-94 ऋदुशनस्पुरुदंसो ऽनेहसां च

प्रथमावृत्तिः

TBD.

काशिका

ऋकारान्तानाम् अङ्गानाम् उशनस् पुरुदंससनेहसित्येतेषाम् च असम्बुद्धौ सौ परतः अनङादेशो भवति। कर्ता। हर्ता। माता। पिता। भ्राता। उशना। उरुदंसा। अनेहा। असम्बुद्धौ इत्येव, हे कर्तः। हे मातः। हे पितः। हे पुरुदंसः। हे अनेहः। हे उशनः। उशनसः सम्बुद्धौ अपि पक्षे अनङिष्यते। हे उशनन्। न ङिसम्बुद्ध्योः 8-2-8 इति नलोपप्रतिषेधो ऽपि पक्षे इष्यते। हे उशन। तथा चोक्तम् सम्बोधने तूशनस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम्। माध्यन्दिनिर्वष्टि गुणं त्विगन्ते नपुंसके व्याघ्रपदाम् वरिष्ठः। इति। तपरकरणमसन्देहार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

206 ऋदन्तानाम् उशनसादीनाम् च अनङ् स्यात् असंबुद्धौ सौ..

बालमनोरमा

274 ऋदुशनस्। `सख्युरसंबुद्धौ' इत्यतोऽसंबुद्धाविति `अनङ सौ' इत्यतोऽनङिति चानुवर्तते, `अङ्गस्ये'त्यधिकृतमृदादिभिर्विशेष्यते। तदाह–ऋदन्तानामिति। उशनसादिष्वपि तदन्तविधिर्बोध्यः। अनङि ङकार इत्। नकारादकार उच्चारणार्थः। `ङिच्चे'त्यन्तादेशः। क्रोष्टन् स् इति स्थिते।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

250) वार्त्तिकम् (under 7-1-94) अस्‍य सम्बुद्धौ वानङ्, नलोपश्‍च वा वाच्‍यः।

When the सम्बुद्धि: affix follows, the सकार: of the प्रातिपदिकम् “उशनस्” takes the अनँङ्-आदेश: optionally and the (ending) नकार: also takes लोप: optionally.

उदाहरणम् – Thus in सम्बुद्धि: we get three forms as follows:

1. When the अनँङ्-आदेश: is not done, then उशनस् will decline like वेधस् and we get (हे) उशन:।

2. When अनँङ्-आदेश: is done then we get (हे) उशनस् + सुँ (सम्बुद्धि:) 4-1-2 = उशन अनँङ् + सुँ 7-1-94, 1-1-53 = उशन अन् + स् 1-3-2, 1-3-3 = उशनन् + स् 6-1-97 = (हे) उशनन् 6-1-68. (8-2-8 stops 8-2-7.)

3. As per the वार्त्तिकम् mentioned above, there is optional नकार-लोप: so we get the third form (हे) उशन।