TBD.
सखिशब्दस्य सौ परतः अनङित्ययम् आदेशो भवति, स चेत् सुशब्दः सम्बुद्धिः न भवति। सखा। असम्बुद्धौ इति किम्? हे सखे।
TBD.
175 सख्युरङ्गस्यानङादेशोऽसम्बुद्धौ सौ..
246 अनङ् सौ। `सख्युरसम्बुद्धौ' इत्यनुवर्तते। `अङ्गस्ये'त्यधिकृतं। तदाह– सख्युरङ्गस्येत्यादिना। `सौ' इति प्रथमैकवचनम्, नतु सप्तमीबहुवचनम्, `असम्बुद्धा'विति पर्युदासात्। अनङि ङकार इत्। नकारादकार उच्चारणार्थः। अनेकाल्त्वात्सर्वादेशत्वमाशह्क्याह–ङिच्चेति।
207 अनङ् सौ। नकारादकार उच्चारणार्थः। `असंबुद्धौ' इति पर्युदासात्साविति प्रथमैकवचनं गृह्रते, न तु सप्तमीबहुवचनम्। `सौर्डा' इत्येव सिद्धे अनङिधामन्यातोऽपि स्यादिति ज्ञापनार्थम्, तेन उशनसः संबुद्धावनङ् सिह्रतीति प्राञ्चः। यद्यपि `सोर्डे' त्युक्ते `ऋदुशन—' इत्युत्तरसूत्रेणापि ङा स्यात्। ततश्च `उशने'त्यत्र `सर्वनामस्थाने चाऽसंबुद्धौ'इति दीर्घः स्यात्।`पुरुदंसे'त्यत्र तु `सान्तमहतः'इति दीर्घः स्यात्, तथापि संज्ञापूर्वकविधेरनित्यत्वादङ्गवृत्तपरिभाषया वा कतत्समाधेयमिति तेषामाशयः।
87) अनँङ् सौ 7-1-93
वृत्ति: सख्युरङ्गस्यानँङादेशोऽसम्बुद्धौ सौ । अनँङ् is substituted for the अङ्गम् (base) सखि when the non-vocative affix सुँ follows.
Please see example under the next rule.