Table of Contents

<<8-2-7 —- 8-2-9>>

8-2-8 न ङिसम्बुद्ध्योः

प्रथमावृत्तिः

TBD.

काशिका

ङौ परतः सम्बुद्धौ च नकारलोपो न भवति। आर्द्रे चर्मन्। लोहिते चर्मन्। सुपां लुकिति ङेर्लुक्। सम्बुद्धौ हे राजन्। हे तक्षन्। एतस्मादेव नलोपप्रतिषेधवचनातप्रत्ययः इति प्रत्ययलक्षणेन प्रातिपदिकसंज्ञा न प्रतिषिध्यते इति ज्ञाप्यते, भसंज्ञा च न भवति इति। तथा च राज्ञः पुरुषः राजपुरुषः इत्यत्र नलोपश्च भवति, अल्लोपश्च न भवति। ङावुत्तरपदे प्रतिषेधस्य प्रतिषेधो वक्तव्यः। चर्मणि तिला अस्य चर्मतिलः। हे राजन् वृन्दारक इत्यत्र समुदायार्थसम्बोधनम्, न पूर्वपदार्थसम्बोधनं प्रतीयते इति सम्बुद्ध्यन्तं पूर्वपदं न एव समस्यते। वा नपुंसकानाम् इति वक्तव्यम्। हे चर्मन्, हे चर्म।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

283 नस्य लोपो न ङौ सम्बुद्धौ च. हे राजन्. (ङावुत्तरपदे प्रतिषेधो वक्तव्यः). ब्रह्मनिष्ठः. राजानौ. राजानः. राज्ञः..

बालमनोरमा

हे राजन् स् इति स्थिते हल्ङ्यादिना सुलोपे सति नकारस्य पदान्तत्वात्प्रातिपदिकान्तत्वाच्च लोपे प्राप्ते–न ङिसंबुद्ध्योः। `न लोपः प्रातपदिकान्तस्ये'त्यतो `न लोप' इत्यनुवर्तते। तत्र `ने' ति लुप्तषष्ठीकन्तदाह– नस्येत्यादिना। हे राजन्निति। `सर्वनामस्थाने चे'ति दीर्घस्तु न, `असंबुद्धा'वित्युक्तेः। नन्वत्र ङिग्रहणं व्यर्थं, राजनीत्यत्र भत्वात्पदत्वाऽभावान्नलोपस्याऽप्रसक्तेरित्यत आह–ङौ तु छन्दसीति। छन्दस्येवेत्यर्थः। ननु छन्दस्यपि ङौ परतो भत्वात्पदत्वाऽभावात्कथं नकारस्य लोपप्रसङ्गो येन तन्निषेधोऽर्थवान् स्यादित्यत आह–सुपामिति। ननु `परमे व्योमन्' इत्यादौ ङेर्लुका लुप्तत्वात्प्रत्ययलक्षणाऽभावात्कथं तत्र `न ङिसंबुद्ध्यो'रित्यस्य प्रवृत्तिरित्यत आह–निषेधसामथ्र्यादिति। छन्दस्यपि ङिलुकि प्रत्ययलक्षणाऽभावे सति `न ङिसबुद्ध्यो'रित्यप्रवृत्तौ तद्वैयथ्र्यादिति भावः। प्रत्ययलक्षणमाश्रित्य `न ङिसंबुद्ध्यो'रित्यस्य प्रवृत्तिरभ्युपगम्यते, तर्हि चर्मणि तिला अस्य चर्मतिलः, ब्राहृणि निष्ठा अस्य ब्राहृनिष्ठ इत्यत्रापि समासे ङिलुकः प्रत्ययलक्षणमाश्रित्य `न ङिसंबुद्ध्यो'रिति नकारस्य लोपनिषेधः स्यादित्यत आह–ङावुत्तरपदे इति। उत्तरपदे परतो यो ङिस्तस्मिन् परे `न ङिसंबुद्ध्यो'रिति निषेधस्य प्रतिषेधो वक्तव्य इत्यर्थः। एवं च `चर्मतिलः' इत्यत्र `उत्तरपदे परतो न ङिसंबुद्ध्यो'रिति प्रतिषेधाभावान्नकारस्य लोपो निर्बाध इति भावः। भाष्ये तु छन्दसि `परमे व्योमन्' इत्यत्र `अयस्मयादीनि छन्दसी'ति भत्वात् पदत्वाऽभावान्नकारलोपस्याऽप्रसक्तेर्ङौ प्रतिषेधो न कर्तव्य इति ङिग्रहणं प्रत्याख्यातम्। न च `राजन्यती'त्यत्र लोके राजनीवाचरतीत्यर्थे `अधिकरणाच्चे'ति क्यचि `सनाद्यन्ताः इति धात्ववयवत्वात्सुपो धातुप्रातिपदिकयोरिति ङेर्लुकि `राजन्ये'त्यस्मात्तिपि `राजन्यती'त्यत्राप्यन्तर्वर्तिविभक्त्या पदत्वमाश्रित्य नकारस्य लोपप्राप्तौ तन्निषेधार्थं ङिग्रहणस्यावश्यकत्वात्तत्प्रत्याख्यानभाष्यमनुपपन्नमिति वाच्यम्, एतद्भाष्यप्राम#आण्यादे राजनीवाचरतीत्यर्थे `अधिकारणाच्चे'ति क्यचोऽनभिधानाभ्युपगमादित्यलम्। राजानमित्यादौ सुटि `सर्वनामस्थाने चे'ति दीर्घः। शसि विशेषमाह–अल्लोपोऽन इति। अनेन सूत्रेण जकारादकारस्य लोप इत्यर्थः। राजन् अस् इति स्थिते-। श्चुत्वमिति। ततश्च नकारस्य ञकारे `राज्ञ' इति सिद्धम्। ननु `अचः परस्मिन्' इत्यल्लोपस्य पूर्वस्मादपि विधौ स्थानिवत्त्वात्कथमिह श्चुत्वमित्यत आह- -नचाल्लोपः स्थानिवदिति। कुत इत्यत आह–पूर्वत्रेति। `पूर्वत्रासिद्धे' इति श्चुत्वे कर्तव्ये स्थानिवत्त्वनिषेधादित्यर्थः। बहिर्भूतस्वादिप्रत्ययापेक्षो बहिरङ्गः, श्चुत्वं तु श्चुयोगमात्रापेक्षत्वादन्तरङ्गम्। ततश्च `असिद्धं बहिरङ्गमन्तरङ्गे' इति परिभाषया श्चुत्वे कर्तव्ये बहिरङ्गस्याऽल्लोपस्याऽसिद्धत्वादकारेण व्यवधानात्कथमिह श्चुत्वमित्यत आह–नापीति। यथोद्देशेति। `यथोद्देशं संज्ञापरिभाष'मित्येकः पक्षः। उद्देशाः=उत्पत्तिप्रदेशाः, ताननतिक्रम्य यथोद्देशम्। यत्र प्रदेशे संज्ञापरिभाषयोरुत्पत्तिस्तत्रैव ते स्थिते प्रतिविधि व्याप्रियेते इत्यर्थः। `असिद्धं बहिरङ्गमन्तरङ्गे' इति परिभाषेयं षष्ठाध्याये `वाह ऊठ' इति सूत्रे ज्ञापितेति तत्रैव भाष्ये स्पष्टम्। ततश्च इयं षाष्ठी परिभाषा त्रैपादिके श्चुत्वे कर्तव्येऽन्तरङ्गे।ञपि न प्रवर्तते,तां प्रति श्चुत्वस्याऽन्तरङ्गस्याऽसिद्धतया तद्दृष्ठ\उfffदा श्चुत्वस्यैवाऽभावेन तद्विषये तस्याः परिभाषायाः प्रवृत्त्यसंभवात्। तथा च श्चुत्वे कर्तव्ये बहिरङ्गस्याप्यल्लोपस्याऽसिद्धत्वाऽभावादिह श्चुत्वं निर्बाधमिति भावः। `कार्यकालं संज्ञापरिभाष'मित्यप्यस्ति पक्षान्तरम्। प्रतिविधिप्रदेशं प्राप्य संज्ञापरिभाषे व्याप्रियेते इत्यर्थः। अस्मिन् पक्षे यद्यपि श्चुत्वमन्तरङ्गं पुरस्कृत्य `असिद्धं बहिरङ्गमन्तरङ्गे' इति परिभाषाऽत्र प्रवृत्तिमर्हति, तथापि लक्ष्यानुरोधात्कार्यकालपक्षो नेहाश्रीयत इत्यलम्। जञयोगे तादृशध्वनेर्लोकवेदसिद्धत्वादिति भावः। नत्विदं वर्णान्तरम्, शिक्षादावदर्शनात्। अत `एतज्ज्ञान'मिति श्चुत्वसिद्धिरित्याहुः। राज्ञः राज्ञति। शसादावचि भत्वादल्लोपे नकारस्य श्चुत्वेन ञकार इति बावः। ननु राजन्-भ्यामिति स्थिते `स्वादिषु' इति पदत्वात्कृते नलोपे `सुपि चे'ति दीर्घः प्राप्नोति। तथा राजन्-भिस् इति स्थिते नलोपे, `अतो भिसः' इत्यैस् प्राप्नोति। तथा राजन्-भ्यस् इति स्थिते नलोपे `बहुवचने झल्येत्' इत्येत्त्वं प्राप्नोति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

264) वार्त्तिकम् (under 8-2-8) सम्बुद्धौ नपुंसकानां नलोपो वा वाच्यः ।

When सम्बुद्धिः follows, the पदान्त-नकारः of neuter words is elided optionally.