Table of Contents

<<7-1-94 —- 7-1-96>>

7-1-95 तृज्वत् क्रोष्टुः

प्रथमावृत्तिः

TBD.

काशिका

क्रोष्टुशब्दः तुन्प्रत्ययान्तः संज्ञाशब्दः सर्वनामस्थाने ऽसम्बुद्धौ परतः तृज्वद् भवति। तृजन्तस्य यद् रूपं तदस्य भवति इत्यर्थः। रूपातिदेशो ऽयम्। प्रयासत्तेश्च क्रुशेरेव ऋजन्तस्य य रूपं तदतिदिश्यते। तच् च क्रोष्तृ इत्येतदन्तोदात्तम्। क्रोष्टा, क्रोष्टारौ, क्रोष्टारः। क्रोष्टारम्, क्रोष्टरौ। सर्वनामस्थाने इत्येव, क्रोष्टून्। असम्बुद्धौ इत्येव, हे क्रोष्टो।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

272 तयोरविशेषेण सर्वत्र प्रयोगे प्राप्ते विशेषं दर्शयितुमाह–तृज्वत्क्रोष्टुः। प्रत्ययग्रहणपरिभाषया `तृच्' इति तृजन्तं गृह्रते। `तेन तुल्य'मिति तृतीयान्ताद्वतिः। `इतोऽत्सर्वनामस्थाने' इत्यतः `सर्वनामस्थाने' इति `सख्युरसंबुद्धौ' इत्यतो`ऽसंबुद्धाविति' चानुवर्तते। तदाह– क्रोष्टुस्तृजन्तेनेत्यादिना। `कार्यरूपनिमित्तार्थशास्त्रतादात्म्यशब्दिताः। व्यपदेशश्च सप्तैतानतिदेशान् प्रचक्षते'। इति व्यतिदेशाः सप्त, तत्र प्राधान्यादिह तृजन्तरूपमेव अतिदिश्यते, तच्च न `कर्तृ' `भर्तृ' इत्यादि तृजन्तं रूपं, किंतु `क्रोष्टु' इत्येव तृजन्तरूपमतिदिश्यते। क्रुशधातोरुपस्थितत्वात्, अर्थत आन्तर्याच्चेत्यभिप्रेत्य फलितमाह–क्रोष्टुशब्दस्य स्थाने इति। निमित्तादीनामुदाहरणानि तु तत्र तत्र प्रधर्शयिष्यामः। क्रोष्टृ स् इति स्थिते।

तत्त्वबोधिनी

235 तृज्वत्क्रोष्टुः। `क्रुश आह्वाने रोदने च'। अस्मा`त्सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्'इति तुन्प्रत्यये क्रोष्टुशब्दः। तृचि तु क्रोष्टृशब्दः। द्वावपि श्रृगालवचनौ। तत्राऽविशेषेण द्वयोः प्रयोगे प्राप्ते `सर्वष्टु' रिति तुन्नन्तात्प्रथमा। `तृज्व'दिति तृतीयान्ताद्वतिः। निमित्तेव्यपदेशतादात्म्यशास्त्रकार्यरूपविषयकत्वेनातिदेशस्यानेकविधत्वेऽपि प्राधान्यादिह रूपमेवातिदिश्यते [इत्याह–तृजन्तवद्रूपमिति।]तच्च न पचादेर्यस्य कस्यचि\उfffद्त्कतु क्रुशेरेव, उपस्थितत्वादर्थत आन्तर्याच्चेत्यभिप्रेत्य फलितमाह–क्रोष्टुशब्दस्य स्थाने क्रोष्टुशब्द इति। निमित्तोतिदेशो यथा– चिकीर्षति। चिकीर्षते। अत्र सन्नन्तस्य `पूर्ववत्सनः'इत्यनेन ञित्त्वातिदेशे कर्तृगामिनि क्रियाफले आत्मनेपदं सिध्यति। ननु कार्यातिदेशोनाप्येतद्गतार्थमिति चेदत्राहुः—निमित्तप्रतिसन्धानपूर्वकत्वात्तस्येति निमित्तातिदेशः पृथगुक्तं इति। व्यपदेशातिदेशे यथा—`आद्यन्तवदेकस्मि'न्नित्यनेन `कर्तव्य'मित्यादौ सावकाशः प्रत्ययाद्युदात्तत्वफलक आदित्वव्यपदेश औपगवादावतिदिश्यते। तादात्म्यातिदेशो यथा– –`सुबामन्त्रिते पराङ्गवत्स्वरे'इत्यनेन `द्रवत्पाणी शुभस्पती'इत्यत्र शुभशब्दस्य पराङ्गवत्त्वे सति षाष्ठिकेन `आमन्त्रितस्ये'त्यनेन शकारादुकारस्याद्युदात्तत्वं सिध्यति। शास्त्रातिदेशो यथा—`कालेभियो भवव'दित्यनेन कालवाचिभ्यः `तत्र भवः'इत्यधिकारे यच्छस्त्रं तत् `सास्य देवकते'त्यर्थोऽतिदिश्यते। तेन `मासिकं'`प्रावृषेण्य'मित्यत्रा यथाविहितं `कालाट्ठञ्' `प्रावृष् एण्यः'इति सिध्यति। कार्यातिदेशे तु—-इह प्रकृतिपत्र्ययादीनां साङ्कर्यं स्यात्। कायातिदेशे `गोतो णित्'। गौः गावौ गावः। अत्र णित्कार्यं वृद्धि रतिदिश्यते, प्राधान्यात्। केचित्तु निमित्तातिदेशे `गोतो णि'दित्युदाहरन्ति, तन्मते कार्यातिदेशस्य `कर्मवत्कर्मणा', `स्थानिदादेशः–'इत्याद्युदाहर्तव्यम्। रूपातिदेशो यथा-वतण्डी चासौ वृन्दीरिका च वातण्ड\उfffद्वृन्दरिका। अत्र वतण्डीशब्दे `पुंवत्कर्मधारये'त्यनेन पुंवाचकवातण्ड\उfffद्शब्दरूपमितिदिश्यते। इह मनोरमायामतिदेशस्य षड्विधत्वमुक्तम्। अन्ये त– `कार्यरूपनिमित्तार्थशास्त्रतादात्म्यशब्दिताः। व्यपदेशश्च सप्तैतानतिदेशान्प्रचक्षते।'—-इति वप्तविधत्वमाहुः। अर्थातिदेशस्योदाहरणं तु– गर्गी च गग्र्यायणौ च गर्गाः। अत्र `स्त्री पुंवच्चे'–त्यनेन गोत्रप्रत्ययान्तस्त्रीव#आचकस्य `वृद्धोयूने' त्येकशेषे सति रूयर्थस्य पुमर्थोऽतिदिश्यते। तेन स्त्रियामपत्यकृतबहुत्वे `यञञोश्चे'ति लुक् सिध्यति।

Satishji's सूत्र-सूचिः

TBD.