Table of Contents

<<6-4-9 —- 6-4-11>>

6-4-10 सान्तमहतः संयोगस्य

प्रथमावृत्तिः

TBD.

काशिका

सकारान्तस्य संयोगस्य यो नकारः महतश्च तस्य उपधायाः दीर्घो भवति सर्वनामस्थाने परतः असम्बुद्धौ। श्रेयान्, श्रेयांसौ, श्रेयांसः। श्रेयांसि। पयांसि। यशांसि। महतः स्वल्वपि महान्, महान्तौ, महान्तः। असम्बुद्धौ इति किम्? हे श्रेयन्। हे महन्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

344 सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने. महान्. महान्तौ. महान्तः. हे महन्. महद्भ्याम्.. ,

बालमनोरमा

315 सान्त महतः। `सर्वनामस्थाने चासंबुद्धौ इति, `नोपधाया' इति चानुवर्तते। `ने'ति लुप्तषष्ठीकं पदम्। `ढ्रलोपे पूर्वस्ये'त्यतो `दीर्घ' इत्यनुवर्तते। नकारस्य उपधाया दीर्घ इति लभ्यते। `संयोगस्ये'त्यवयवषष्ठ\उfffद्न्तं नकारेऽन्वेति। `सान्ते'ति षष्ठ\उfffद्न्तं पृथक्पदम् . आर्ष षष्ठ\उfffदा लुक्। सान्तस्येति लभ्यते। तच्च संयोगेऽभेदेनान्वेति-सान्तो यः संयोग इति। अत एवाऽसामथ्र्यान्महच्छब्देन तस्य न समासः। `महत' इत्यप्यवयवषष्ठ\उfffद्न्तम्। तच्च नकारेऽन्वेति। तदाह-सान्त-संयोगस्येत्यादिना। अजरांसीति। दीर्घे सति `नश्चपदान्तस्ये'त्यनुस्वारः। अत्र उपधाया इति पूर्वत्वमात्रोपलक्षणं, पारिभाषिकोपधात्वस्याऽसंभवात्। अथ द्वितीयैकवचने रूपं दर्शयितुमाह–अमि लुक इति। अजर अमिति स्थिते `स्वमोर्नपुंसका'दिति सुक् प्राप्तः, तं बाधित्वा तदपवादोऽतोमित्यम्भावः प्राप्तः, तं बाधित्वा `विप्रतिषेधे पर'मिति परत्वाज्जरस्। अजरसमिति। वस्तुस्थितिकथनमेतत्। ननु लुगपवादस्याऽम्भावस्य जरसादेशेन बाधितत्वात् `अपवादे निषिध्दे पुनरुत्सर्गस्य स्थिति'रिति न्यायेनाऽमो लुक्?कुतो न स्यादित्यत आह–तत इति। `ततो न लु'गित्यन्वयः। जरसादेशानन्तरममो लुङ्न भवतीत्यर्थः। कुत इत्यत आह–संनिपातेति। अम्संनिपातमाश्रित्य प्रवृत्तस्य जरसस्तल्लुकि निमित्तत्वाऽभावादिति भावः। शेषं पुंवत्। अजरसा-अजरेण। अजरसे-अजराय। अजरसः-अजरात्। अजरसः-अजरस्य। अजरसोःअजरयोः। अजरसि-अजरे। ह्मदयोदकास्यशब्दाः सुटि ज्ञानवत्। शसादौ विशेषमाह–पद्दन्निति। ह्मन्दीति। ह्मदयशब्दाच्छसः शिभावे ह्मदादेशे `नपुंसकस्य झलचः' इति ऋकारात् परतो नुमि `नश्चपदान्तस्ये'त्यनुस्वारे तस्य परसवर्णे नकारे रूपम्। इत्यादीति। ह्मदे। ह्मदः। ह्मदः। ह्मदोः। ह्मदाम्। ह्मदि। ह्मदोः। ह्मत्सु। ह्मदभावपक्षे ज्ञानवत्। उदकशब्दः सुटि ज्ञानवत्। शसादौ विशेषमाह–उदानीति। शसः शिभावे उदन्नादेशे `सर्वनामस्थाने चे'ति दीर्घः। `अल्लोपोऽन' इति तु न, शेः सर्वनामस्थानत्वात्। उद्नेति। उदक-आ इति स्थिते उदन्नादेशे अल्लोपः। उदभ्यामिति। उदन्नादेशे `न लोपः प्रातिपदिकान्तस्ये'ति नलोपः, `स्वादिष्वसर्वनामस्थाने' इति पदत्वात्। इत्यादीति। उद्गे। उद्गः। उद्गः। उद्गोः। उदनि–उद्गि। उद्गोः। उदन्नभावपक्षे ज्ञानवत्। आस्यशब्दः सुटि ज्ञानवत्। शसादौ विशेषमाह–आसानीत्यादि। उदन्नादेशवद्रूपाणि। इत्यादीति। आस्ने। आस्नः। आस्नः। आस्नोः। आस्नि-आसनि। आस्नोः। आससु। आसन्न-भावपक्षे ज्ञानवत्। मांसशब्दोऽपि सुटि ज्ञानवत्। `मांसपृतनासानूना'मिति शसादौ `मांस' आदेशः। अत्र नकारस्य `नश्चापदान्तस्ये'ति कृतानुस्वारस्य निर्देशः। अत एवाह–मान्भ्यामिति। मांस्?आदेशे सकारस्य संयोगान्तलोपे सति निमित्ताऽपायादनुस्वारनिवृत्तौ रूपम्। संयोगान्तलोपस्याऽसिद्धत्वान्न लोपो न। अथ सुठ\उfffद्पि ह्मदाद्यादेशं साधयितुमाह- -वस्तुतस्त्विति। इत्युक्तमिति। `ककुद्दोषणी' इति भाष्यप्रयोगात्प्रभृतिग्रहणस्य प्रकारार्थत्वमजन्तपुंलिङ्गाधिकारे स्वयमुक्तमित्यर्थः। ननु प्रभृतिग्रहणस्य प्रकारार्थत्वेऽपि प्रत्ययत्वेन सादृश्यविवक्षायां प्रथमैकवचने ह्मदिति प्रयोगोऽनुपपन्नः, सोर्लुका लुप्तत्वेन प्रत्ययलक्षणस्याप्यभावात्, तदनित्यत्वाश्रयणे च मानाऽभावादित्यत आह-एत एवेति। मांस्पचन्या इति। पच्यते अस्यामुखायामिति पचनी। अधिकरणे ल्युट्, अनादेशः। टित्त्वात् ङीप्। मांसस्य पचनीति षष्ठीसमासः। अत्र ङसो लुका लुप्तत्वात्प्रत्ययलक्षणाऽभावे प्रत्ययपरत्वाऽभावात् मांसादेशो न स्यात्। अतो ह्मदाद्यादेशविधौ `न लुमते'ति निषेधस्याऽनित्यत्वमाश्रीयत इत्यर्थः। ननु `मांस्पचन्या' इत्यत्र अन्तर्वर्तिनं ङसं लुप्तमाश्रित्य मांसित्यस्यास्ति पदत्वम्, `सुप्तिङ्न्त'मिति पदसंज्ञायाः प्रकृतिप्रत्ययधर्मत्वेन केवलाङ्गधर्मत्वाऽभावेनाऽत्र `न लुमते'ति निषेधस्याऽप्रवृत्तेः। अन्यथा `राजपुरुष' इत्यत्र कथं नलोपः ?। ततश्चात्र संयोगान्तलोपो दुर्वार इत्यत्र आह– भत्वात्संयोगान्तलोपो नेति। ननु यजादिस्वादिप्रत्यये परे विधीयमानाया भसंज्ञायाः केवलाङ्गधर्मत्वात्तत्र लुका लुप्ते प्रत्ययलक्षणनिषेधात्कथमिह भसंज्ञेत्यत आह– अयस्मयादित्वेनेति। मांसादेशस्याऽयस्मयादिगणपठितत्वात् `अयस्मयादीनि छन्दसी'नि भत्वमित्यर्थः। ततश्च वैदिकप्रक्रियायामेव तदुपन्यासो युज्यत इत्याक्षेपः। परिहरति–तथापीति। `पद्दन्नो' इति सूत्रे छन्दोग्रहणानुवृत्तावपि लोकेऽपि क्वचिदित्यन्वयः। कुतो लोकेऽपि प्रयोग इत्यत आह–अपो भीत्यादीति। `अपो भी'ति सूत्रम्। अपस्तकारः स्याद्भादौ प्रत्ययपरे इत्यर्थः। तत्रास्ति वार्तिकं– `मासश्छन्दसी'ति। मासित्यस्य तकारः स्याद्भादिप्रत्यये परे छन्दसीति तदर्थः। ऋग्वेदे `माद्भिः शरद्भिः' इत्यादिमन्त्रमुदाहरणम्। यदि `पद्दन्नि'ति छन्दोमात्रविषयं स्यात्तदा मासित्यादेशस्य छन्दोमात्रविषयत्वादलौकिकत्वान्मासश्छन्दसीति सस्य तकारविधौ छन्दौग्रहणं व्यर्थं स्यात्। अतो लोकेऽपि क्वचिदिति कैयटोक्तरीत्या `पद्दन्नि'त्यस्य लोकेऽपि प्रवृत्तिमनुमत्य पदाद्यादेशाः प्रयोक्तुं योग्या इत्यर्थः। इत्यदन्ताः।

तत्त्वबोधिनी

277 सान्त महतः। अत्र `नोपाधायाः'`सर्वनामस्थाने चासंबुद्धा'वित्यनुवर्तते। `सान्ते'ति लुप्तषष्ठी कं `संयोगान्तस्ये'त्यनेन समानाधिकरणमिति व्याचष्टे—- सान्तसंयोगस्येत्यादि। तस्योपधाया इति। तत्पूर्वस्येत्यर्थः। अमि लुकोऽपवादमित्यादि। एतेन `स्वमोरमादेशे एव कृते वा जर'सिति प्राचो ग्रन्थः प्रत्युक्तः। मांस्पचन्या इत। पच्यतेऽस्यामिति पचनी। `करणाधिकरणयोश्चे'ति ल्युट्। टित्त्वान्ङीप्ष मांसस्य पचनी मांस्पचनी। अत्र ङसो लुका लुप्तत्वात्प्रत्ययलक्षणं नेति प्रभृतिग्रहणस्य प्रकारार्थत्वं विना मांसशब्दस्य `मा'सित्यादेशो न सिध्येदिति भावः। ननु पृषोदरादिसूत्रे `मांसस्य पचि युङ्घञो'रिति वक्ष्यमाणत्वादन्तलोपेनाप्येतद्रूपं सिद्धमिति चेत्, अत्राहुः–`पृष्टोदरादीनि यथोपदिष्ट'मित्यस्योत्तरपदाधिकारस्थत्वाल्ल्युडन्तं यदुत्तरपदं `मांस्पचन'मित्यादि तत्रैबान्तलोपः स्यात्। अत्र हि ङूबन्तमुत्तरपदं न तु ल्युडन्तमिति नास्त्येबान्तलोप इति। मासश्छन्दसीति। `मास्शब्दस्य तकारः स्याद्भादौ प्रत्यये छन्दसी'ति वार्तिकार्थः। `माद्भिः शरद्भिः दुरोदरं तवे'त्युदाहरणम्।

Satishji's सूत्र-सूचिः

238) सान्त महतः संयोगस्य 6-4-10

वृत्ति: सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसम्बुद्धौ सर्वनामस्थाने। When a सर्वनामस्थानम् affix other than a सम्बुद्धिः follows, the letter preceding the नकारः of a base that ends in a सान्त-संयोग: (a conjunct ending in a सकार:) or of the word महत् is elongated.

गीतासु उदाहरणम् – श्लोकः bg18-77

By the उणादि-सूत्रम् “वर्तमाने पृषद्-बृहन्महज्जगद् शतृँवच्च।” the प्रातिपदिकम् “महत्” will undergo the same operations as a शतृँ-प्रत्ययान्त-शब्द:। This makes it उगित् (one that has an उक् letter as an इत्) and hence 7-1-70 can apply.

महत् + सुँ 4-1-2 = महनुँम्त् + स् 1-3-2, 7-1-70, 1-1-47 = महन्त् + स् 1-3-2, 1-3-3 = महान्त् + स् 6-4-10 = महान्त् 6-1-68 = महान् 8-2-23. Note: After this 8-2-7 cannot be applied because of 8-2-1.