Table of Contents

<<6-4-10 —- 6-4-12>>

6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तृ\उ0304णाम्

प्रथमावृत्तिः

TBD.

काशिका

अपित्येतस्य, तृनन्तस्य, तृजन्तस्य, स्वसृ नप्तृ नेष्टृ त्वष्तृ क्षत्तृ होतृ पोतृ पशास्तृ इत्येतेषां चाङ्गानाम् उपधाया दीर्घो भवति सर्वनामस्थाने परतो ऽसम्बुद्धौ। अप् आपः। बह्वाम्पि तडागानि इति केचिदिच्छन्ति, तत्र समासान्तो विधिरनित्यः इति समासान्तो न क्रियते। नित्यम् अपि च नुममकृत्व दीर्घत्वम् इष्यते। तृन् कर्तारौ कटान्। वदितारौ जनापवादान्। कर्तारः। तृच् कर्तारौ कटस्य। कर्तारः। हर्तारौ भारस्य। हर्तारः। स्वसृ स्वसा, स्वसारौ, स्वसारः। नप्तृ नप्ता, नप्तारौ, नप्तारः। नेष्टृ नेष्टा, नेष्टारौ, नेष्टारः। त्वष्टृ त्वष्टा, त्वष्टारौ, त्वष्टारः। क्षत्तृ क्षत्ता, क्षत्तारौ, क्षत्तारः। होतृ होता, होतारौ, होतारः। पोतृ पोता, पोतारौ, पोतारः। प्रशास्तृ प्रशास्ता, प्रशास्तारौ, प्रशास्तारः। नप्त्रादिनां ग्रहणमव्युत्पत्तिपक्षे विध्यर्थम्। व्युत्पत्तिपक्षे नियमार्थम्, एवम् भूतानाम् अन्येषां संज्ञाशब्दानां दीर्घो मा भूतिति। पितरौ, पितरः। मातरौ,मातरः। असम्बुद्धौ इति किम्? हे कर्तः। हे स्वसः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

207 अबादीनाम् उपधाया दीर्घः असंबुद्धौ सर्वनामस्थाने. क्रोष्टा. क्रोष्टारौ. क्रोष्टारः. क्रोष्टून्..

बालमनोरमा

275 अप्तृन्। `नोपधायाः' इत्यत `उपधाया' इत्यनुवर्तते। `सर्वनामस्थाने चासंबुद्धौ' इति चकारवर्जमनुवर्तते। तदाह–अबादीनामिति। अत्र अष्टाध्यायां तावत् `तृन्' इति सूत्रेण, `ण्वुल्तृचौ' इति सूत्रेण च कर्तरि तृन्तृचौ विहितौ। तथा उणादिषु `तृन्तृचौ शंसिक्षादादिभ्यः संज्ञायां चाऽनिटौ' `बहुलमन्यत्रापि' इति सूत्राभ्यां तृन्तृचो विधाय, `नप्तृनेष्ट्टत्वष्ट्टहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ' इति सूत्रेण नप्त्रादयो निपातिताः। ततश्च संज्ञाशब्दास्तृन्तृजन्ता औणादिका इति स्थितिः। तत्र तृजन्तत्वादेव सिद्धे नप्तार्दिग्रहणं व्यर्थमित्यत आह– नप्त्रादिग्रहणमिति। नप्त्रादिसप्तानामेव तृन्तृजन्तानां दीर्घ इति नियमेव तदितरेषां पितृभ्रात्रादीनां न दीर्घ इति भावः। नच प्रशास्तृशब्द औणादिको न भवतीति भ्रमितव्यं, तस्यापि संज्ञाशब्दस्य शंसिक्षदादिगणप्रविष्टत्वेन ओणादिकत्वात्। अत्र मूले `व्युत्पत्तिपक्षे' इत्युक्त्या अव्युत्पत्तिपक्षे नप्त्रादिसप्तानां तृन्तृजन्तत्वाऽभावादप्राप्तौ नप्त्रादिग्रहणमर्थवत्। तदितरपितृमात्रादिशब्दानां तु औणादिकानामव्युत्पन्नतया तृन्तृजन्तत्वाऽभावादेव न दीर्घ इति सूचितम्। नन्वेवं सति उद्गातृशब्दस्यापि संज्ञाशब्दस्य शंसिक्षदादित्वेन औणादिकत्वात्तस्य च नुप्त्रादिसप्तस्वनन्तर्भावात्कथं दीर्घ इत्यत आह–उद्गातृशब्दस्येति। `ण्वुल्तृचौ' इति सूत्रस्थ भाष्ये तु `अप्तृ' इत्येवास्तु, तृन्तृचोग्र्रहणं मास्त्विति प्रपञ्चितम्। `तृ'न्निति भाष्ये तु तृन्विधौ `ऋच्विक्षु चानुपसर्गस्ये'ति वक्तव्यम्। होता। पोता। अनुपसर्गस्य किम् ?। प्रशास्ता। प्रतिहर्ता। औणादिकतृजन्त एवायम्। `नयतेस्तृन् वक्तव्यः षुक्च'। नेष्टा। `त्विषेर्देवतायां तृन् वक्तव्यः। अकारश्चोपधाया अनिट्त्वं च'। त्वष्टा। `क्षदेश्च युक्ते तृन् वक्तव्यः'। क्षत्ता। इत्येवं होतृपोतृनेष्टृत्वष्टृक्षत्तृशब्दास्तृन्नन्ता व्युत्पादिताः। तन्मते तु तेषां पञ्चानामिहग्रहणं प्रपञ्चार्थम्। नप्तृप्रशास्तृग्रहणमेवोक्तनियमार्थमित्यन्यत्र विस्तरः। क्रोष्टेति। क्रोष्टन् स् #इति स्थिते एकदेशाविकृतस्यानन्यतया तृजन्तत्वाद्दीर्घः। हल्ङ्यादिना सुलोपः। नलोपः। यद्यपि `सर्वनामस्थाने चे'त्येवात्र दीर्घः सिध्यति तथापि परत्वादप्तृन्नित्येव दीर्घो न्याय्यः। क्रोष्टाराविति। क्रोष्टु-औ इति स्थिते तृज्वद्भावः। क्रोष्टु-आ इति स्थिते।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

108) अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणाम् 6-4-11

वृत्ति: अबादीनामुपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने । When a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of अप्, of words ending in affixes तृन् and तृच् and of the words स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ and प्रशास्तृ becomes long.

गीतासु उदाहरणम् – श्लोकः bg9-17 – Continued

धातन् + स् = धातान् + स् 6-4-11 = धातान् 6-1-68 = धाता 8-2-7