Table of Contents

<<6-1-36 —- 6-1-38>>

6-1-37 न सम्प्रसारणे सम्प्रसारणम्

प्रथमावृत्तिः

TBD.

काशिका

सम्प्रसारने परतः पूर्वस्य यणः सम्प्रसारणं न भवति। व्यध विद्धः। व्यच विचितः। व्येञ् संवीतः। एकयोगलक्षनम् अपि सम्प्रसारणम् अत एव वचनात् प्रथमं परस्य यणः क्रियते, पूर्वस्य च प्रसक्तं प्रतिषिध्यते। सम्प्रसारणम् इति वर्तमाने पुनः सम्प्रसारनग्रहणं विदेशस्थस्य अपि सम्प्रसारणस्य प्रतिषेधो यथा स्यातिति। श्वयुवमघोनाम् अतद्धिते 6-4-133 यूनः। यूना। सम्प्रसारणग्रहणसामर्थ्यातेव पूर्वस्य प्रतिषेधे वक्तव्ये स्वर्णदीर्घत्वम् एकादेशो न स्थानिवद् भवति। सति वा स्थानिवत्त्वे व्यवधानमेतावदाश्रयिष्यते। ऋचि त्रेरुत्तरपदादिलोपश् छन्दसि। ऋचि परतः त्रेः सम्प्रसारणम् भवति उत्तरपदादिलोपश्च छन्दसि विषये। तिस्र ऋचः यस्मिन् तत् तृचं सूक्तम्। तृचं साम। ऋक्पूरब्धूःपथामानक्षे 5-4-74 इति समासान्तः। छन्दसि ति किम्? त्यृचं कर्म। रयेर्मतौ बहुलम्। रयिशब्दस्य छन्दसि विषये मतौ परतो बहुलं सम्प्रसारणं भवति। आ रेवानेतु नो विशः। न च भवति। रयिमान् पुष्टिवर्धनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

293 संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात्. इति यकारस्य नेत्वम्. अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम्. यूनः. यूना. युवभ्याम् इत्यादि.. अर्वा. हे अर्वन्..

बालमनोरमा

न संप्रसारणे। इति यकारस्येति। सवर्णदीर्घनिष्पन्नस्य ऊकारस्य `अचः परस्मिन्' इति स्थानिवत्त्वेन संप्रसारणतया यकारस्य संप्रसारणपरकत्वान्न संप्रसारणमिकार इत्यर्थ#ः। ननूकारद्वयस्थानिकस्य ऊकारस्य स्थानिवत्त्वे सति तस्य उकारद्वयात्मकतया प्रथमेन उकारेण व्यवधानात्संप्रसारणपरत्वाऽभावात्कथमिह निषेधः?। `येन नाव्यवधान'मिति न्यायस्य तु नायं विषयः, विव्याथेत्यादौ `व्यथो लिटी'ति वकारस्याऽव्यवहितसंप्रसारणपरत्वे निषेधस्य चरितार्थत्वादिति चेन्मैवम्। एवं हि सति `न संप्रसारणे संप्रसारण'मिति निषेधस्य `व्यथो लिटी'ति संप्रसारणमात्रविषयकत्वमापद्येत। एवंच सति `व्यथो यो लिटी'ति यकारग्रहणेनैव सिद्धे `न संप्रसारणे संप्रसारण'मिति सूत्रमनर्थकमेव स्यात्। अतः `\उfffदायुवे'ति संप्रसारणनिषेधकत्वमस्यावश्यकमिति व्यवहितेऽपि संप्रसारणे परे `यून' इत्यादौ निषेधो निर्बाधः, `यूनस्ति'रित्यादिनिर्देशाच्चेत्यलम्। ननु सकृत्प्रवृत्त्यैव युवन्शब्दे यवयोः संप्रसारणे जाते निषेधो व्यर्थः। निमित्तत्वानुपपत्तिश्च। यद्वा प्रथमं यकारस्य संप्रसारणमस्तु। तदानीं संप्रसारणपरत्वाऽभावेन निषेधाऽप्रवृत्तेः। अनन्तरं तु वकारस्यापि संप्रसारणमस्तु। तत्राह–अत एव ज्ञापकादिति। अन्यथा एतन्निषेधारम्भवैयथ्र्यापातादिति भावः। इत्यादिति। यूने। यूनः, 2। यूनोः। यूनि। `आतो मनिन्क्वनिब्वनिपश्च', `अन्येभ्योऽपि दृश्यते' इति ऋधातोर्वनिपि गुणे रपरत्वेऽर्वन्शब्दोऽ\उfffदो योगरूढः।

तत्त्वबोधिनी

324 न संप्रसारणे। `ह्वः' संप्रसारण`मित्यतः 'संप्रसारणमित्यनुवर्तमानेऽपि पुनः सम्प्रसारणग्रहणात्प्रदेशान्तरस्थं `\उfffदायुवमघोना'मित्यपि संप्रसारणं निषिध्यते, तदाह–इति यकारस्य नेत्वमिति। यून इति। ननू कारेण व्यवधानात्कथमत्र निपेधः?, `विव्याध'`विव्यथे'इत्यादावव्यवधानेऽपि निषेधस्य चरितार्थत्वात्। न च सम्प्रसारणग्रहणादेव व्यवधानमिति वाच्यम्, `अचः परस्मि'न्निति स्थानिवत्त्वात्। अत्राहुः–विदेशस्थानिषेधार्थत्पुनः सम्प्रसारणग्रहणादेव व्यवधानेऽप्यत्र निषेधोभविष्यतीत्यदोषः। न च`व्यथो लिटी'ति विदेशस्थेन यकारस्य संप्रसारणे कृते वकारस्य तदभावाय `न सम्प्रसारणे'इति सूत्रं प्रवर्त्त्य पुनः संप्रसारणग्रहणं चरितार्थमिति व्यवधेने निषेधो न भविष्यतीति शङ्क्यं, `व्यथो लिटी'त्येतद्धलादिः शेषापवाद`इत्याकरे स्पष्टत्वात्। 'उत्सर्गसदेशश्चापवाद`इति परस्यैव संप्रसारणं भवति न पूर्वस्ये'ति कैयटेन व्याख्यातत्वाच्चेचि।

Satishji's सूत्र-सूचिः

207) न सम्प्रसारणे सम्प्रसारणम् 6-1-37

वृत्ति: सम्प्रसारणे परतः पूर्वस्य यणः सम्प्रसारणं न स्यात्। When a सम्प्रसारणम् follows, the यण् that precedes does not get सम्प्रसारणम् as replacement. By this ज्ञापकम्, the last यण् takes सम्प्रसारणम् first. And after that the earlier यण् does not get सम्प्रसारणम्।

उदाहरणम् – युवन् + शस् = युवन् + अस् 1-3-8, 1-3-4, युवन् gets भ-सञ्ज्ञा by 1-4-18 = यु उ अन् + अस् 6-4-133, 6-1-37 = यु उन् + अस् 6-1-108 = यूनः 6-1-101, 8-2-66, 8-3-15