Table of Contents

<<1-4-17 —- 1-4-19>>

1-4-18 यचि भम्

प्रथमावृत्तिः

TBD.

काशिका

सवादिश्वसर्वनामस्थाने इति वर्तते। पूर्वेण पदसंज्ञायां प्राप्तायां तदपवादो भसंज्ञा विधीयते। यकारादावजादौ च स्वादौ सर्वनामस्थानवर्जिते प्रत्यये परतः पूर्वं भस्ंज्ञं भवति। यकाराऽदौ गार्ग्यः। वात्सयः। अजादौ दाक्षिः। प्लाक्षिः। नभो ऽङ्गिरोमनुषां वत्युपसङ्ख्यानम्। नभ इव नभस्वत्। अङ्गिरा इव अङ्गिरस्वत्। मनुरिव मनुष्वत्। वृषण्वस्वश्वयोः। वृषनित्येतत् वस्वश्वयोः प्रतो भसंज्ञं भवति छन्दसि विशये। वृषण्वसुः। वृषणश्वस्य मैनासीत्। भप्रदेशाः भस्य 6-4-129 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

165 यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसंज्ञं स्यात्..

बालमनोरमा

229 भसंज्ञया पदसंज्ञाबाधान्न जश्त्वमिति समाधातुं भसंज्ञासूत्रमाह–यचि भं। य्च अश्चेति समाहाद्वन्द्वः। `स्वादिष्वसर्वनामस्थाने' इत्यनुवृत्तं `यची'त्यनेन विशेष्यते। `यस्मिन्विधि'रिति तदादिविधिः। तदाह–यकारादिष्वित्यादिना। एवंच दत्- असित्यत्र `दत्' इत्यस्य भसंज्ञया पदसंज्ञाबाधान्न जश्त्वमिति भावः। ननु पदभसंज्ञयोरिह समावेशः कुतो न स्यात्। नच`विप्रतिषेधे परं कार्य'मिति परैव भसंज्ञा भवतीति वाच्यं, विरोध हि विप्रतिषेधः।

तत्त्वबोधिनी

194 यचि भम्। `यची'त्यल्ग्रहणेन सप्तमीनिर्देशात्तदादिविधिरित्याह- यकारादिष्वित्यादि। यकारादिषु किम् ?।गार्ग्यः। वात्स्यः। गर्गादिभ्यो यञि `यस्येति चेत्यकारलोपो यथा स्यात्। असर्वनामस्थानेषु किम् ?। सुपादौ, सुपादः। विद्वांसौ, विद्वांसः। दित्यवाहौ , दित्यवाह इत्यादौ `पादः पत्' `वसोः संप्रसारणम्' `वाह ऊ'डित्यादयो मा भूवन्निति।

Satishji's सूत्र-सूचिः

146) यचि भम् 1-4-18

वृत्ति: यकारादिषु अजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसञ्ज्ञं स्यात्। Excluding the affixes that are सर्वनामस्थानम्, when any of the other affixes from “सुँ” up to “कप्” that begin with यकारः or अच् (vowel) follow, the base gets the भ-सञ्ज्ञा. Note: From “सुँ” up to “कप्” means any प्रत्यय: prescribed from 4-1-2 up to the end of the 5th Chapter of the अष्टाध्यायी.

उदाहरणम् –

ज्ञान + औ = ज्ञान + शी 7-1-19 = ज्ञान + ई 1-3-8 Here ज्ञान gets the भ-सञ्ज्ञा by 1-4-18