TBD.
श्वन् युवन् मघवनित्येतेषाम् अङ्गानाम् अतद्धिते प्रत्यये परतः सम्प्रसारणं भवति। शुनः। शुना। शुने। यूनः। यूना। यूने। मघोनः। मघोना। मघोने। अतद्धिते इति किम्? शौवं मांसम्। यौवनं वर्तते। माघवनः स्थालीपाकः। शुनो विकारे प्राणिरजतादिभ्यो ऽञ् 4-3-154, द्वारादित्वादैजागमः। श्वादीनाम् एतत् सम्प्रसारणं नकारान्तानाम् इष्यते। इह न भवति, युवतीः पश्य। मघवतः। मघवता। मघवते। तदर्थम् उत्तरत्र योगविभागम् कुर्वन्ति। अल्लोपः। अनः। अनः इत्युभयोः शेषः इति।
TBD.
292 अन्नन्तानां भानामेषामतद्धिते संप्रसारणम्. मघोनः. मघवभ्याम्. एवं श्वन्, युवन्..
शसादावचि मघवन् अस् इत्यादि स्थिते `अल्लोपोऽनः' इति प्राप्ते-\उfffदायुवमघोनाम्। \उfffदाआ च, युवा च, मघवा च इति द्वन्द्वः। `वसोः संप्रसारण'मित्यतः संप्रसारणमित्यनुवर्तते। `भस्ये'त्यधिकृतम्। `अल्लोपोऽनः' इत्यतोऽन इत्यपकृष्यते। तच्च \उfffदायुवमघोनां प्रत्येकं विशेषणं, तदन्तविधिः। फलितमाह– अन्नन्तानामित्यादि। `इग्यणः संप्रसारणम्' इति वकारस्य संप्रसारणमुकारः। मथ उ अन् इति स्थिते पूर्वरूपमुक्तं स्मारयति–संप्रसारणाच्चेति। णघ उ न् इति स्थिते गुणं स्मारयति–आद्गुण इति। अन्नन्तानां किमिति। \उfffदायुवमघोनामन्नन्तत्वाऽव्यभिचारात्किमर्थमन्नन्तत्वविशेषणम्। मघवन्शब्दे नकारस्य त्रादेशपक्षेऽपि एकदेशविकृतस्यानन्यतयाऽन्नन्तत्वसत्त्वादिति प्रश्नः। मघवत इति। त्रादेशपक्षे मघवन्शब्दे संप्रसारणनिवृत्त्यर्थमन्नन्तत्वविशेषणम्। यद्यप्येकदेशविकृतस्यानन्यतया अन्नन्तत्वमस्त्येव, तथापि विशेषणसामथ्र्यात् श्रूयमाणनकारान्तस्यैव संप्रसारणमित्याहुः। स्त्रियां मघवतीति। मघवतः स्त्री मघवती, पुंयोगेन स्त्रियां वृत्तौ `उगितश्चे'ति ङीप्। अत्राप्यन्नन्तत्वविशेषणान्न संप्रसारणमिति भावः। अत्र `उगिदचा'मिति नुम् तु न, ङ#ईपा व्यवधानेन तान्तस्य उगितः सर्वनामस्थानपरकत्वाऽभावात्। लिङ्गविशिष्टपरिभाषा तु नेह प्रवर्तते, विभक्तौ लिङ्गविशिष्टाऽग्रहणमित्युक्तेरिति भावः। माघवनमिति। `साऽस्य देवता' इति मघवन्शब्दादणि आदिवृद्धिः। अत्राऽणस्तद्धितत्वात्तस्मिन् परे न संप्रसारणमिति भावः। मघवभ्यामिति। भ्यामादौ हलि नलोप इति भावः। इत्यादीति। मघोने। मघोनः 2। मघोनोः। मघोनाम्। मघोनि। \उfffदान्शब्दः प्रायेण राजवत्। शसादावचि `\उfffदाउयुवे'ति संप्रसारणं वकारस्य उकारः। शु अन् इति स्थिते `संप्रसारणाच्चे'ति पूर्वरूपमिति मत्वाह-शुनः शुनेति। इत्यादीति। शुने। शुनः 2। शुनोः। शुनाम्। शुनि। युवन्शब्दोऽपि प्रायेण राजवत्। शसादावचि विशेषमाह-युवन्शब्द इति। युवन् अस् इत्यादिस्थिते `\उfffदायुवे'ति वकारस्य संप्रसारणे उकारे यु उ अन् इति स्थिते `संप्रसारणांच्चे'ति पूर्वरूपे यु उ न् इति स्थिते सवर्णदीर्घे यून इत्यादिरूपेषु सिद्धेषु यकारस्यापि संप्रसारणे प्राप्त इत्यर्थः। लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरित्यस्य तु नायं विषयः, कार्याश्रयवर्णभेदेन लक्ष्यभेदात्। अन्यथा संस्कर्तेत्यादौ `अनचि चे'त्यादेरसकृत्प्रवृत्त्यनुपपत्तेरितिभावः।
323 \उfffदायुव। `अल्लोपोऽनः'इत्यतो–ऽन' इत्यपकृष्य व्याचष्ट अन्नन्तनामिति। अन्नन्तानां किं। मघवत इति। यद्यपि नस्य तादेशेऽप्येकदेशविकृतस्याऽनन्यत्वादन्नन्तताऽत्रास्त्येव, तथापि विशेषणसामथ्र्यच्छ्रयमाणनकारान्तस्यैव संप्रसारणं न त्वत्रेत्याहुः। वार्तिककृता तु `\उfffदाआदीनां संप्रसारणे नकारान्तग्रहणमनकारान्तप्रतिषेधार्थ'मित्यक्तम्। नन्वेवमपि `अल्लोपोऽनः'इत्यल्लोपो दुर्वार इति चान्मैवम्, भाष्यकृता पुर्वोक्तवार्तिकमत्रानुवत्र्य `अल्लोपोऽनः, नकाकान्तस्यैवे'तिव्याख्यातत्वात्। एतच्च `ऋलृ'गिति सूत्रे भाष्ये स्पष्टम्। एतेन`बहुधीवरी'`राजकीय'मित्यत्राऽप्यल्लोपाऽभावः सिद्धः। `वनो र च'`राज्ञः क चे'त्यादेशे कृते चकारान्तत्वाऽभावात्। स्त्रिया मघवतीति। मधवती मघवत्यौ। मघवत्य इत्यत्र लिङ्गविशिष्टपरिभाषाया `उगिदचा'मिति नुम्न शङ्क्यः, `विभक्तौ लिङ्गविशिष्टाऽग्रहणा'दित्याहुः।
204) श्वयुवमघोनामतद्धिते 6-4-133
वृत्ति: अन्नन्तानां भसञ्ज्ञकानाम् एषाम् अतद्धिते परे सम्प्रसारणं स्यात्। The “अन्” ending “श्वन्”, “युवन्” and “मघवन्”, which have the भ-सञ्ज्ञा, take सम्प्रसारणम् when followed by an affix which is not a तद्धितः।
Example under next rule.