TBD.
छन्दसि इति वर्तते। अपस्पृधेथाम् इति स्पर्ध सङ्घर्षे इत्यस्य लङि आथामि द्विवर्चनं रेफस्य संप्रसारणम् अकारलोपश्च निपातनात्। इन्द्रश्च विष्णो यदपस्पृधेथाम्। अपस्पर्धेथाम् इति भाषायाम्। अपर आह स्पर्धेः अपपूर्वस्य लिङि आथामि सम्प्रसरणम् अकारलोपश्च निपातनात्। बहुलं छन्दस्यमङ्योगे ऽपि 6-4-75 इत्यडागमाभावः। अत्र प्रत्युदाहरणम् अपास्पर्धेथाम् इति भषायाम्। आनृचुः, आनृहुः इति। अर्च पूजायाम्, अर्ह पूजायम् इत्यनयोर् धात्वोलिट्युसि सम्प्रसारणम् अकारलोपश्च निपातनात्। ततो द्विर्वचनम्, उरदत्वम्, अत आदेः 7-4-70 इति दीर्घत्वम्। तस्मान् नुड् द्विहलः 7-4-71 इति नुडागमः। य उग्रा अर्कमानृचुः। न वसून्यानृहुः। आनर्चुः, आनर्हुः इति भाषायाम्। चिच्युषे। च्युङ् गतौ इत्यस्य धातोः लिति सेशब्दे अभ्यासय सम्प्रसारणम् अनिट् च निपातनात्। चिच्युषे। चुच्युविषे इति भाषायाम्। तित्याज। त्यज हानौ इत्यसय् धातोः लिटि अभ्यासस्य सम्प्रसारणं निपात्यते। तित्याज। तत्याज इति भाषायाम्। श्राताः इति। श्रीञ् पाके इत्येतस्य धातोः निष्ठायां श्राभावः। श्रातास्त इन्द्रसोमाः। श्रितम् इति तस्य एव श्रीणातेः ह्रस्वत्वम्। सोमो गौरी अधिश्रितः। श्रिता नो गृहाः। अनयोः श्राभावश्रिभावयोर् विषयविभागम् इच्छति, सोमेषु बहुषु श्राभाव एव, अन्यत्र श्रिभावः इति। सोमादन्यत्र क्वचिदेकस्मिन्नपि श्राभावो दृश्यते। यदि श्रातो जुहोतन। तस्य श्राताः इति बहुवचनस्य अविवक्षितत्वादुपसंग्रहो द्रष्टव्यः। आशीः, आशीर्तः इति। तस्य एव श्रीणातेराङ्पूर्वस्य क्विपि निष्ठायां च शीरादेशः, निष्ठायाश्च नत्वाभावो निपातनात्। तामाशीरा दुहन्ति। आशीर्त ऊर्जम्। क्षीरैर् मध्यत आशीर्तः।
TBD.
–
–
–
TBD.