Table of Contents

<<5-4-73 —- 5-4-75>>

5-4-74 ऋक्पूरब्धूःपथाम् आनक्षे

प्रथमावृत्तिः

TBD.

काशिका

बहुव्रीहौ इति न स्वर्यते। सामान्येन विधानम्। ऋक् पुरप् धुर् पथिनित्येवम् अन्तानां समासानाम् अकारः प्रत्ययो भवति समासान्तो ऽक्षे न। सामर्थ्याद् धुर एतद् विशेषणम्, ऋगादीनां न भवति। अक्षेसम्बन्धिनी या धूः तदन्तस्य न भवति। अनृचः। बह्वृचः। अर्धर्चः। पुर् ललाटपुरम्। नान्दीपुरम्। अप् द्वीपम्। अन्तरीपम्। समीपम्। धुर् राजधुरा। महाधुरः। पथिन् स्थलप्थः। जलपथः। अनृचो अनक्षे इति किम्? अक्षस्य धूः अक्षधूः। दृढधूः अक्षः। अनृचो माणवको ज्ञेजो, बः वृचश्चरणाख्यायाम्। माणवकः। बह्वृचो ब्राह्मणः। अनृक्कं साम, बह्वृक्कं सूक्तम् इत्यत्र न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

996 अ अनक्षे इतिच्छेदः. ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवोऽक्षे या धूस्तदन्तस्य तु न. अर्धर्चः. विष्णुपुरम्. विमलापं सरः. राजधुरा. अक्षे तु अक्षधूः. दृढधूरक्षः. सखिपथः. रम्यपथो देशः..

बालमनोरमा

927 अथ सर्वसमाससाधारमसमासान्ता निरूप्यते–ऋक्पूरब्धूः। छेद इति। सूत्रे `अ' इति लुप्तप्रथमान्तनिर्देश इति भावः। `समासान्ता' इत्यधिकृतम्। ऋगादिभिः समासो विशेष्यते। तदन्तविधिः। तदाह–ऋगाद्यन्तस्येति। ऋक्, पुर्, अप्, धुर्, पथिन्- एतदन्तस्येत्यर्थः। अप्रत्यय इति। अकारात्मकप्रत्यय इत्यर्थः। अक्षे या धूरिति। अक्षसंबन्धिनी या धूरित्यर्थः। सूत्रे संबन्धिनोऽधिकरणत्वविक्षया अनक्षे इति सप्तमी। `अनक्षे' इति च धुर्शब्देनैव संबध्यते, अन्यैरसंभवादिति भावः। अर्धर्च इति। ऋचोऽर्धमिति विग्रहः। `अर्धं नपुंसक'मिति समासः। अकारः समासान्तः। `अर्धर्चाः पुंसि चे'ति पुंस्त्वम्। अनृचबह्वृचावध्येतर्येवेति। अविद्यमाना ऋचो यस्येति विग्रहः। बहव ऋचो यस्येति बह्वृचः-ऋक्छाखीत्युदाहरणम्। `अध्येतर्येवे'ति नियमस्य प्रयोजनमाह–नेहेति। अनृक्सामेति। अविद्यमाना ऋचो यस्मिन्निति विग्रहः। ऋच्यनध्यूढं प्रजापतेह्र्मदयं साम। बह्वृक्सूक्तमिति। बहवो ऋचो यस्मिन्निति विग्रहः। अथ पुर्शब्दान्तस्योदाहरति–विष्णोरिति। ननु पुर्शब्दस्य स्त्रीत्वा `परवल्लिङ्ग'मिति विष्णुपुरशब्दस्य स्त्रीत्वं युक्तमित्यत आत–क्लीबत्व#ं लोकादिति। अथाऽप्शब्दान्तस्योदाहरति–विमलापं सर इति। विमला आपो यस्मिन्निति विग्रहः।

तत्त्वबोधिनी

803 ऋक्पूर। `अ'इति लुप्तप्रथमैकवचनान्तं, `समासान्ताः'इति त्वधिक्रियते, तदाह— समासस्याप्रत्ययोऽन्तावयव इति। `अनक्षे'इत्येतत्सामान्यतः श्रुतमपि धुरैव संबध्यते, सामथ्र्यात्, नान्यैरित्याशयेन व्याचष्टे–अक्षे या धूरिति। तदन्तस्य तु नेति। सूत्रे संबन्धिनोऽधिकरणत्वविवक्षया सप्तमी। तेन अक्षसंबन्धिनी या धूस्तदन्तस्य नेत्यर्थः। यद्यत्र `अक्षे पूर्वपदे ने'ति व्याख्यायेत, तर्हि `दृढधूरक्षः'इत्यत्र निषेधो न स्यात्। यदि तु `अक्षे समासार्थेने'ति व्याख्यायेत, तदा `अक्षधू'रित्यत्र न स्यात्। तस्मादुभयसंग्रहार्थमुक्तव्याख्यानमेव ज्यायः। अद्र्धर्च इति। `अर्द्धं नपुंसक'मिति समासः। `अर्धर्चाः पुंसि चे'ति पुंस्त्वम्। अनृगित्यादि। अनुक्तसमासान्तत्वात् `शेषाद्विभाषे'ति कप्प्रत्यये `अनृच्कं' `बह्वृच्कं'मित्यपि बोध्यम्। विष्णुपुरमिति। यद्यपि पुरशब्देन समासेऽप्येतत्सिध्यति, तथापि `विष्णुपू'रित्यनिष्टवारणाय सूत्रे पूग्र्रहणम्।

Satishji's सूत्र-सूचिः

TBD.