TBD.
आमः परस्य लेः लुग् भवति। ईहाञ्चक्रे। ऊहाञ्चक्रे। ईक्षाञ्चक्रे।
TBD.
473 आमः परस्य लुक्..
84 आमः। `मन्त्रे घसह्वरे'त्यतो लेरिति, `ण्यक्षत्रियार्षञित' इत्यतो लुगिति चानुवर्तते। तदाह– आमः परस्य लेरिति। अत्रेदमवधेयम्– `कृन्मेजन्त' इत्यत्र कृद्यो मान्तस्तदव्ययमिति व्याख्याने एधामित्यादि नाऽव्ययं , लिट एव कृत्त्वात्, तस्य च मान्तत्वाऽभावात्। तथा च प्रत्ययलक्षणेन कृदन्तत्वात्प्रातपदिकत्वे स्वाद्युत्पत्तौ `आम' इति लुक्। लेरित तु नानुवर्तते। `मान्तं कृदन्तमव्यय'मिति व्याख्याने तु प्रत्ययलक्षणेन कृदन्तत्वादेधामिति मान्तमव्ययम्। ततः सुबुत्पत्तावव्ययादाप्सुप इति लुक्। `आम' इत्यनेन तु परिशेषाल्लेरेव लुक्सिद्धेर्लेरितिनानुवर्तनीयम्। `आमः परस्य ले'रिति विवरणवाक्ये तु लेरिति स्पष्टार्थमेव। एवं च एधामित्यव्ययं न वेति पक्षद्वयम्, उभयथापि सुबन्तं पदमिति भाष्ये स्पष्टम्।
65 `लक्षणप्रतिपदोक्त'परिभाषया, `प्रत्ययग्रहण'परिभाषया च नेह- आम। आमतुः। परसय् लुगिति। `मन्त्रे घसे'ति सूत्राल्लेरित्यनुवर्त्त्य `लेर्लु'गिति काशिकादौ व्याख्यातं, तदत्रोपेक्षितं, व्यावर्त्त्याऽलाभात्। तिङाद्यपवादत्वाल्लावस्थायायमेवायं लुक्। तेन आमन्तस्याऽतिङ्न्तत्वाद्देवदत्तादिपदात्परत्वेऽपि `तिङ्ङतिङः' इति न निघातः। आमन्तात्परस्य निघातश्च तिङन्तस्येत्यर्थः। न चाऽतिङन्तत्वे पदत्वाऽभावादामन्तात्परस्य निघातो न सिध्यतीति शङ्क्यं, लिटः कित्त्वात्प्रत्ययलक्षणेन कृदन्ततया प्रातिपदिकत्वे सोरुत्पत्तावामन्तस्याऽव्ययत्वात्सुपो लुक्यपि प्रत्ययलक्षणेन सुबन्ततया पदत्वात्।
वृत्तिः आमः परस्य लुक्। An affix which follows the affix “आम्” takes the लुक् elision.
Example continued from 6-4-55
दर्शय् + आम् + लिँट् Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93
= दर्शयाम् 2-4-81. Now “दर्शयाम्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 with the help of 1-1-62
= दर्शयाम् + सुँ 4-1-2
= दर्शयाम् 2-4-81
Example continued under 3-1-40