Table of Contents

<<3-1-92 —- 3-1-94>>

3-1-93 कृदतिङ्

प्रथमावृत्तिः

TBD.

काशिका

अस्मिन् धात्वधिकारे तिङ्वर्जितः प्रत्ययः कृत्सज्ञको भवति। कर्तव्यम्। करणीयम्। अतिङ इति किम्? चीयात्। स्तूयात्। कृत्प्रदेशाः कृत्तद्धितसमासश्च 1-2-46 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

774 धातोरेते प्रत्ययाः स्युः. एधितव्यम्, एधनीयं त्वया. भावे औत्सर्गिकमेकवचनं क्लीबत्वं च. चेतव्यश्चयनीयो वा धर्मस्त्वया (केलिमर उपसंख्यानम्) पचेलिमा माषाः. पक्तव्या इत्यर्थः. भिदेलिमाः सरलाः. भेत्तव्या इत्यर्थः. कर्मणि प्रत्ययः..

बालमनोरमा

अथ क्विन्नन्तस्य `कृत्तद्धिते'ति प्रातिपदिकत्वं वक्तुं क्विनः कृत्संज्ञां दर्शयति–कदतिङ्। `धातो'रित्यधिकृतं, `प्रत्यय' इति च। `धातो'रिति च विहितविशेषणम्। तेन धातोर्विहितः प्रत्यय इत्यर्थो लभ्यते। `धातो'रित्यधिकृत्य विहित इति यावत्। तदाह–संनिहिते इति। तेन णिजादिनिरासः। युज् व् इति स्थिते।

तत्त्वबोधिनी

335 संनिहित इति। प्राचा तु `तृतीये धात्वधिकारे'इत्युक्तं, तदसत्, `धातोः कर्मणः'इति सन्बिधौ धातुग्रहणस्योत्तरत्रानुवृत्तेरभावेनाधिकारत्रयाऽभावात्।

Satishji's सूत्र-सूचिः

217) कृदतिङ् 3-1-93

वृत्ति: अत्र धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्सञ्ज्ञः स्यात्। In the धात्वधिकारः starting with 3-1-91 धातोः, all the affixes other than the तिङ् affixes get the designation कृत्।

Example continued:

The क्विँन् affix (prescribed by 3-2-59) gets the कृत्-सञ्ज्ञा because it comes in the 3-1-91 धातोः अधिकारः and it is not a तिङ्-प्रत्यय: (ref. 3-4-78).