Table of Contents

<<2-4-33 —- 2-4-35>>

2-4-34 द्वितीयाटौस्स्वेन

प्रथमावृत्तिः

TBD.

काशिका

अन्वादेशे ऽनुदात्तः इति वर्तते। द्वितीया टा ओसित्येतेषु परत इदम् एतदोरन्वादेशविषययोः एनशब्द आदेशो आदेशो भवति अनुदात्तः। इदमो मण्डूकप्लुतिन्यायेन अनुवृत्तिः। इमं छात्रं छन्दो ऽध्यापय, अथो एनं व्याकरणमध्यापय। अनेन छात्रेण रात्रिरधीता, अथो एनेनाहरप्यधीतम्। अनयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम्। एतदः खल्वपि एतं छात्रं छन्तो ऽध्यापय, अथो एनं व्याकरणमप्यध्यापय। एतेन छात्रेन रात्रिरधीता, अथो एनेनाहरप्यधीतम्। एतयोश् छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम्। एनदिति नपुंसकैकवचने वक्तव्यम्। प्रक्षालयैनत्। परिवर्तयैनत्। इह कस्मान् न भवति, अयं दण्डो हरानेन, एतमातं ङितं विद्यातिति? यत्र किञ्चिद् विधाय वाक्यान्तरेण पुनरन्यदुपदिश्यते सो ऽन्वादेशः। इह तु वस्तुनिर्देशमात्रं कृत्वा एकम् एव विधानम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

282 इदमेतदोरन्वादेशे. किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः. यथा - अनेन व्याकरणमधीत मेनं छन्दोऽध्यापयेति. अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वामिति.. एनम्. एनौ. एनान्. एनेन. एनयोः. एनयोः.. राजा..

बालमनोरमा

द्वितीयाटौस्स्वेनः। द्वितीया च टाश्च ओश्च द्वितीयाटौसः, तेष्विति द्वन्द्वः। `इदमोऽन्वादेशे' इत्यत `इदम' इति, `अन्वादेशे' इति चानुवर्तते। `एतदस्त्रतसोः' इत्यत `एतद' इति च। तदाह–द्वितीयायामित्यादिना। `अनावादेश' शब्दं व्याचष्टे- किञ्चिदिति। विधातुमिति। अपूर्वं बोधयितुमित्यर्थः। अन्वादेशमुदाह्मत्य दर्शयति - यथेति। उदाहरणप्रदर्शने यथाशब्द। `ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित्' इत्यत्र तु एनादेशो न, पूर्वार्धस्य यच्छब्दयोगेनानुवादत्वात्। किञ्चित् कार्यं विधातुमुपात्तस्य इत्यत्र च पूर्ववाक्ये यथाकथंचित्तदुपादानं विवक्षितं, न त्विदमैवेत्याग्रह इति भाष्ये स्पष्टम्। इति मान्ताः। अथ णकारान्ताः। गणयतेर्विजिति। `गण सङ्ख्याने' इति चुरादिरदन्तः। ततः सुपूर्वात्स्वार्थे णिच्। अल्लोपस्य स्थानिवत्त्वान्नोपधावृद्धिः। तस्माद्विच्, `अन्येभ्योऽपि दृश्यते' इति वचनाण्णिलोपः, अपृक्तलोपः, ततः सुबुत्पत्तिः, हल्ङ्यादिना सुलोपः। सुगण् इति रूपम्। सुगणौ, सुगण इत्याद्यविकृतमेव। सुपि `ङ्णोः कुक्टुक्शरी'ति टुग्विकल्पः। `चयो द्वितीयाः' इति टस्य ठ इत्यभिप्रेत्याह–सुगण्ठ्सु इति। द्वितीया।ञभावे रूपमाह–सुगण्ट्सु इति। टुगभावे रूपमाह–सुगण्सु इति। सुगाणिति। गणधातोरदन्ताण्णिच्, अल्लोपः। तस्य स्थानिवत्त्वान्नोपधावृद्धिः। तस्मात्क्विप्, णिलोपः अपृक्तलोपः। `अनुनासिकस्य क्विझलो'रिति दीर्घः। सुगाणिति रूपम्। सुगाणौ सुगाण इत्यादि। नच दीर्घे कर्तव्ये णिलोपाऽल्लोपयोः स्थानिवत्त्वं शङ्क्यं, दीर्घविधौ तन्निषेधात् , क्वौ विधिं प्रति तन्निषेधाच्च। इति आन्ताः। अथ नान्ताः। राजन्शब्दे विशेषमाह–परत्वादिति। हल्ङ्यादिलोपापेक्षया परत्वात्पूर्वमेव `सर्वनामस्थाने चाऽसंबुद्धौ' इति दीर्घः। ततो हल्ङ्यादिलोप इत्यर्थः। नच `विप्रतिषेधे यद्बाधितं तद्वाधितमेवे'ति न्यायात्कथमिह हल्ङ्यादिलोप इति वाच्यं, `पुनः प्रसङ्गविज्ञानात्सिद्ध'मिति। विप्रतिषेधे यद्वाधितं'मित्यस्याऽसार्वत्रिकत्वादिति भावः। नलोप इति। `न लोपः प्रातिपदिकान्तास्ये'ति नकारस्य लोप इत्यर्थः।

तत्त्वबोधिनी

311 द्वितीयाटौस्सु। `इदमोऽन्वादेशे'इत्यतः `इदम'इत्यनुवर्तते, `अन्वादेश'इति च। `एतदस्त्रतसो'रित्यत `एतद'इत्यपि, तदाह–इदमेतदोरेनादेश इत्यादि। `अनुदात्त'इत्यनुवर्तनादेनादेशोऽनुदात्त इति ज्ञेयः। कार्य विधातुमिति। अपूर्वं बोधयितुमित्यर्थः। ईषदर्थेक्रियायोगे मर्यादाङिविधौ च यः। एतमातं `ङितं विद्या'दित्यत्र तु ईषदर्थादयो न विधीयन्ते किंत्वनूद्यते इति न तत्रैनादेशः। एतेन `नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापये'त्यपि व्याख्यातम्। भीरुत्वस्याऽनुवाद्यकत्वेन विवक्षितत्वात्।इति मान्ताः। सुदाणिति। क्विप्। न च `अनुनासिकस्य क्वी'ति दीर्घे कर्तव्ये अल्लोपणिलोपयोः–स्थानिवद्भावः शङ्क्यः, दीर्घविधौ तन्निषेधात्। क्वौ विधिं प्रति निषेधाच्च। इति णान्ताः।

Satishji's सूत्र-सूचिः

261) वार्त्तिकम् (under 2-4-34) – अन्वादेशे नपुंसक एनद्वक्तव्यः ।

In अन्वादेश:, the इदम्-शब्द: and एतद्-शब्द: in the neuter gets “एनत्” as its replacement when followed by an affix of the second case or the affix टा or ओस् ।
Note: This वार्त्तिकम् has an effect only in the द्वितीया-एकवचनम्, because in the remaining places, 7-2-102 (followed by 6-1-97) will apply and it will not make a difference if the आदेश: is “एन” or “एनत्”। “एनदिति नपुंसक एकवचने वक्तव्यम्।” – महाभाष्यम्।

उदाहरणम् – इदम्/एतद् (neuter) + अम् (अन्वादेशे) 4-1-2 = इदम्/एतद् 7-1-23 (Note: Here even though 1-1-63 stops further अङ्ग-कार्याणि after लुक् of अम्-प्रत्ययः, since we have the वार्तिकम् prescribing “एनत्”-आदेश:, based on the वचनसामर्थ्यम्, we do the आदेश:।) = एनत् by the वार्त्तिकम् – अन्वादेशे नपुंसक एनद्वक्तव्यः = एनद् 8-2-39 = एनत् /एनद् 8-4-56