Table of Contents

<<2-4-32 —- 2-4-34>>

2-4-33 एतदस् त्रतसोस् त्रतसौ च अनुदातौ

प्रथमावृत्तिः

TBD.

काशिका

अन्वादेश अनुदात्त इति वर्तते। एतदो ऽन्वादेशविषयस्य अशादेशो भवति अनुदात्तः त्रतसोः परतः। तौ च अपि त्रतसावनुदात्तौ भवतः। एतस्मिन् ग्रामे सुखं वसामः, अथो अत्र युक्ता अधीमहे। एतस्माच् छात्राच्छन्तो ऽधीष्व, अथो अतो व्याकरणम् अप्यधीष्व। सर्वानुदात्तं पदं भवति। एतदो ऽशित्यादेशे लभे पुनर् वचनम् अनुदात्तार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1937 एतदस्त्रतसोः। `इदमोऽन्वादेशे' इत्यस्मादन्वादेशे अशनुदात्त इत्यनुवर्तते। तदाह–अन्वादेशेत्यादिना। अतोऽत्रेति। एतच्छब्दात्तसिल्, प्रकृतेरशादेशः। एतदोऽ'न्नित्येव सिद्धेऽनुदात्तार्थं वचनम्। नच लित्स्वरे सति शेषनिघातेन त्रतयसोरनुदात्तत्वं सिद्धमिति शङ्क्यं, लित्स्वरापवादेऽशोऽनुदात्तत्वे कृते लित्स्वराऽप्राप्त्या प्रत्ययस्वरेण त्रतसोरुदात्तत्वे प्राप्ते तद्विधानार्थत्वात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.