Table of Contents

<<2-4-34 —- 2-4-36>>

2-4-35 आर्धधातुके

प्रथमावृत्तिः

TBD.

काशिका

आर्धधातुके इत्यधिकारो ऽयम्, ण्यक्षत्रियाऽर्षञितो यूनि लुगणिञोः 2-4-58 इति यावत्। यदित ऊर्ध्वम् अनुक्रमिष्यमस्तदार्धधातुके वेदितव्यम्। वक्ष्यति हनो वध लिङि 2-4-42 वध्यात्। आर्धधातुके इति किम्? हन्यात्। विषयसप्तमी च इयं, न परसप्तमी। तेन आर्धधातुकविवक्षायाम् आदेशेषु कृतेषु पश्चाद् यथाप्राप्तं प्रत्यया भवन्ति। भव्यम्। प्रवेयम्। आख्येयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

565 इत्यधिकृत्य..

बालमनोरमा

263 आद्र्धधातुके। इत्यधिकृत्येति। `अदो जग्धि'रित्यादिविधयो वक्ष्यन्ते' इति शेषः। तदधिकारस्थं सूत्रमाह–

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.