यू सुपां सुलुक् (7-1-39) इत्यनेन विभक्तिर्लुप्यतेऽत्र। स्त्र्याख्यौ (1/2) नदी (1/1)| स्. - ई च ऊ च यू, इतरेतरयोगद्वन्द्व:, इको यणचि (6-1-77) इत्यनेन यणादेशः। स्त्रियमाचक्षाते स्त्र्याख्यौ, उपपदमतिङ् (2-2-19) इत्यनेन तत्पुरुषसमासः॥
हिन्दी – [यू] ईकारान्त तथा ऊकारान्त जो [स्त्र्याख्यौ] स्त्रीलिङ्ग की आख्या (कहनेवाले) शब्द हैं, उनकी [नदी] नदी संज्ञा होती है।
ई च ऊ च यू। अविभक्तिकोऽयं निर्देशः। स्त्रियमाचक्षाते स्त्र्याख्यौ। मूलविभुजादिदर्शनात् (3-2-5वा०) कप्रत्ययः । ईकारान्तम् ऊकरान्तं च स्त्र्याख्यं शब्दरूपं नदीसंज्ञं भवति। ईकरान्तम् - कुमारी। गौरी। लक्ष्मीः। शार्ङ्गरवी। ऊकारान्तम् - ब्रह्मबन्धूः । यवागूः। यू इति किम्? मात्रे। दुहित्रे। स्त्र्याख्यौ इति किम्? ग्रामणीः। सेनानीः। खलपूः। आख्याग्रहणं किम्? शब्दार्थे स्त्रीत्व एव यथा स्यात्, पदान्तराख्ये मा भूत्, ग्रामण्ये स्त्रियै। खलप्वे स्त्रियै। नदीप्रदेशाः - आण्नद्याः 7-3-112 इत्येवम् आदयः।
Word-forms ending in long ई and ऊ being names of females are called नदी।
195 ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः. (प्रथमलिङ्गग्रहणं च). पूर्वं स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः..
264 हे बहुश्रेयसी सिति स्थिते नदीकार्यं वक्ष्यन्नदीसंज्ञामाह–यूस्त्र्याख्यौ नदी। ईश्चौउश्च यू। पूर्वसवर्णदीर्घः। `दीर्घाज्जसि चे'ति निषेधाऽभावश्छान्दसः। व्याख्यानाद्दीर्घयोरेव ग्रहणम्। स्त्रियमाचक्षाते स्त्र्याख्यौ। शब्दावित्यर्थाल्लभ्यते। `यू' इतितद्विशेषणं, ततस्तदन्तविधिः। `स्त्रिया'मित्येव सिद्धे `आख्या'ग्रहणं नित्यस्त्रीलिङ्गलाभार्थम्। द्वित्वे नदीत्येकवचनं छान्दसम्। तदाह–इदूदन्तावित्यादिना। यू किम् ?। मात्रे। `आण्नद्याः' इति न भवति। स्त्रीलिङ्गाविति किम् ?। वातप्रम्ये। नित्येति किम्?। ग्रामण्ये। प्रकृते बहुश्रेयसीशब्दस्य पुंलिङ्गत्वात्कथं नदीसंज्ञेत्यत आह–प्रथमलिङ्गग्रहणं चेति। वार्तिकमेतत्। प्रथमस्य=समासादिवृत्तिप्रवृत्तेः पूर्वं प्रवृत्तस्य, स्त्रीलिङ्गस्य `यूस्त्र्याख्यौ' इत्यत्र ग्रहणं कर्तव्यमित्यर्थः। नन्वेवं सति समासादिवृत्त्यभावे गौर्यादिशब्दानां नदीत्वं न स्यादित्याशङ्क्य अपिशब्दमध्याह्मत्य व्याचष्टे–पूर्वमित्यादिना। समासादिवृत्तिप्रवृत्तेः पूर्वं स्त्रीलिङ्गस्य सतः वृत्तिदशायामुपसर्जनतया स्त्रीलिङ्गत्वाऽभावेऽपी नदीत्वं वक्तव्यमिति वार्तिकार्थ इति भावः। अम्बार्थनद्योह्र्यस्वः।
226 यू स्त्र्याख्यौ। ई\उfffदा ऊश्च यू। व्याख्यानाद्दीर्घयोरेव ग्रहणम्। अविभक्तिकोऽयं निर्देश इत्येके। `दीर्घाज्जसि चे'ति निषेधस्य `वा छन्दासी'ति पाक्षिकत्वात् `पर्थमयोः पूर्वसवर्णः'इति दीर्घ इत्यन्ये इह`प्रत्ययस्यैव ग्रहण'मिति परिभाषा नोपतिष्ठते। नेयङुवङ्स्थानावस्त्री' ति निषेधाल्लिङ्गात्। तेन `प्रध्यै'`प्रध्य'इत्यादौ नदीकार्यं स्यादेव। स्त्रियमाचक्षाते स्त्र्याख्यौ। मूलविभुजादित्वात्काः। `चक्षिडः ख्याञ्'। `आतो लोप इटि चे'त्यालोपः। ईदुदन्तविति। इह `वर्णयोरेव संज्ञे'त्यपि पक्षोऽस्ति। `आच्छीनद्योः–'इति सूत्रस्वरसात्। तयोः स्त्र्याख्यत्वं तु ङ्यादिषु स्वतः, तन्त्रीर्लक्ष्मिरित्यादौ तु स्त्रीवाचकवर्णसमुदाये घटकत्वेन प्रवेशात्। तेन नद्यन्तादिव्यवहारो न विरुध्यते। एवं `शेषो ध्यसखी'त्यत्रापि `इवर्णोवर्णयोरेव घिसंज्ञे'ति पक्षोऽप्यस्तीति बोध्यम्। तेन `ध्यन्ताजाद्यन्तयोघ्र्यन्तं पर'मिति व्यवहारः सङ्गच्छेते। वर्णसंज्ञापक्षे `असखी'त्यस्य सखिभिन्नस्ययव इत्यर्थो न तु `सकिशब्दावयवं वर्जयित्वे'ति। तेन समुदायस्य सखिशब्दभिन्नत्वादितिसखिनोत्यादि निर्बाधमित्यवधेयम्। नित्यस्त्रीत्वलाभार्थमित्याशयनाह-नित्यस्त्रीलिङ्गाविति। यू किम्?।, मात्रे। स्त्र्याख्याविति किम्?, ग्रामण्येष पूर्वमिति। वृत्तेः प्रागित्यर्थः। संज्ञायां यथोद्देशपर्वृत्तौ न्यायसिद्धमिदं, कार्यकालपक्षे तु वाचमिकमित्याहुः।
132) यू स्त्र्याख्यौ नदी 1-4-3
वृत्ति: ईकारान्तमूकारान्तं च स्त्र्याख्यं शब्दरूपं नदीसंज्ञं भवति । A term ending in long “ई” or long “ऊ” gets the सञ्ज्ञा “नदी” if it is used exclusively in the feminine gender.
उदाहरणम्
गौरी + ङे (गौरी has the designation नदी which allows us to apply 7-3-112) = गौरी + आ ए 1-3-8, 7-3-112, 1-1-46 = गौरी + ऐ 6-1-90 = गौर्यै 6-1-77