Table of Contents

<<1-4-3 —- 1-4-5>>

1-4-4 नेयङुवङ्स्थानावस्त्री

प्रथमावृत्तिः

न (-), इयङुवङ्स्थानौ (1/2), अस्त्री (1/1)|
हिन्दी – [इयङुवङ्स्थानौ] इयङ् उवङ् आदेश होता है जिन ईकारान्त ऊकारान्त स्त्री की आख्यावाले शब्दों को, उनकी नदी-संज्ञा [न] नहीं होती, [अस्त्री] स्त्री शब्द को छोडकर।

काशिका

पूर्वेणातिप्रसक्ता नदीसंज्ञा प्रतिषिध्यते। स्थितिः स्थानम्। इयङुवङोः स्थानमनयोरिति इयङुवङ्स्थानौ, तौ यू नदीसंज्ञौ न भवतः, स्त्रीशब्दम् वर्जयित्वा। हे श्रीः । हे भ्रूः । अस्त्री इति किम्? हे स्त्रि।

Ashtadhyayi (C.S.Vasu)

Feminine word ending in ई and ऊ which admit the substitute इयङ् and उवङ् (6-4-77) are not called नदी; except the word स्त्री (which is called नदी not withstanding its substituting इयङ्).

लघु

230 इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री. हे श्रीः. श्रियै, श्रिये. श्रियाः, श्रियः..

बालमनोरमा

301 नेयङुवङ्स्थानावित्यतोऽस्त्रीत्यस्यानुवृत्तिर्वक्तव्या। ततश्च इयङुवङ्स्थानाविति यत्रान्वेति तत्रैव तत्संबद्धस्याऽस्त्रीत्यस्यानुवृत्तिरुचिता। एवं च ह्यस्वादिवाक्ये इयङुवङ्स्थानावित्यस्याऽनुवृत्त्यभावादस्त्रीत्यस्यापि तत्र नानुवृत्तिरिति भावः। अतिस्त्रियै इति। नदीत्वपक्षे आट् वृद्धिः। अतिस्त्रये इति। नदीत्वाऽभावे घित्वात् `घेर्ङिती'ति गुणेऽयादेशः। अतिस्त्रियाः अतिस्त्रेरिति। नदीत्वे आट्। तदभावे गुणः। `ङसिङसोश्चे'ति पूर्वरूपम्। अतिस्त्रियामिति। नदीत्वपक्षे ङेराम्, आट्। अतिस्त्राविति। नदीत्वाऽभावपक्षे `अच्च घेः'। श्रीरिति। श्रयन्त्येतामिति श्रीः। `क्विब्बचिप्रच्छिश्रिस्नुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं चे'ति क्विप्, प्रकृतेदीर्घश्च। श्री शब्दात्सुः। अङ्यन्तत्वान्न सुलोपः। श्रियौ श्रिय इति। `दीर्घाज्जसि चे'ति पूर्वसवर्णदीर्घनिषेधौ `इको यणची'ति यणि प्राप्ते धात्वयवेवर्णान्तत्वादचि श्नुधात्वितीयङ्। एकाच्त्वात्संयोगपूर्वकत्वाच्च यण् न। `यू स्त्र्याख्यौ' इति नदीत्वात् `अम्बार्थे'ति ह्यस्वेप्राप्ते–नेयङुवङ्। `यू स्त्र्याख्यौ नदी' इत्यतो `यू' `नदी'त्यनुवर्तते। `स्थान' शब्दो भावे ल्युङन्तः। इयङुवङोः स्थानं स्थितिर्ययोरिति बहुव्रीहिः। इयङुवङ्योग्याविति यावत्। तदाह–इयङुवङोरित्यादिना। हे श्रीरिति। अजादाबियङ्योग्यत्वान्नदीत्वनिषेधादम्बार्थनद्यौ'रिति ह्यस्वो नेति भावः। श्रियमिति। अमि पूर्वरूपं बाधित्वा इयङ्। श्रियौ श्रिय इति। औट्शसोः पूर्ववत्। टा-श्रिया। श्रियै इति। `ङिति ह्यस्वश्चे'ति ङिति नदीत्वपक्षे आट्, वृद्धिः। श्रिये इति। नदीत्वाऽभावे इयङ्। श्रिया इति। ङसिङसोर्नदीत्वे आट्, वृद्धिः। श्रिय इति। नदीत्वाऽभावपक्षे इयङेव। ङित्त्वाऽभावादामि `ङिति ह्यस्वश्चे'ति अप्राप्ते।

तत्त्वबोधिनी

263 नेयङ्वङ्स्तानावस्त्री। तिष्ठतो ययोरिति `स्थानौ'। अधिकरणे ल्युट्। इयङुवङोः स्थानाविति षष्ठीसमासः। तथाच फलितार्थमाह—इयङुवङोः स्थितिर्ययोरिति। स्थानग्रहणं किम्? प्रकृष्टा धीः–प्रधीः। हे प्रधि!। अत्र `एरनेकाच' इति यणा इयङो बादानान्नेयङुवङ्स्थानाविति निषेधो न प्रवर्तते। `यत्रेयडुवङौ निष्पद्येते तत्रैव नदीसंज्ञाया निषेधः। यत्र त्वपवादेन बाध्यते तत्र न निषेध'इत्येतदर्थं हि `स्थान'ग्रहणं कृतम्। अन्यथा `नेयङुवङा'रित्येव ब्राऊयात्। `इवङुवङोनिमित्तभूतौ यू नदीसंज्ञकौ ने 'त्यर्थलाभात्। अस्त्रीति किम्? हे स्त्री।

Satishji's सूत्र-सूचिः

138) नेयँङुवँङ्स्थानावस्त्री 1-4-4

वृत्ति: इयँङुवँङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री। The vowels long ई and long ऊ which get the इयँङ् and उवँङ् replacements (respectively), do not take the नदी designation. But the word स्त्री takes the designation.

उदाहरणम् – हे श्री + सुँ = No ह्रस्वादेशः by 7-3-107 because 1-4-4 stops the नदी designation = हे श्रीः (रुँत्व-विसर्गौ)

हे भ्रू + सुँ = No ह्रस्वादेशः by 7-3-107 because 1-4-4 stops the नदी designation = हे भ्रूः (रुँत्व-विसर्गौ)